________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभि: समेतम् ७८
5
[हा० २८] से किं तमित्यादि, यदित्यावश्यकमभिसम्बध्यते । श्रमणो वेत्यादि सुगमम्, यावत् तच्चित्तेत्यादि, सामान्यतस्तस्मिन् आवश्यके चित्तं भावमनोऽस्येति तच्चित्तः । तथा तन्मना: द्रव्यमन: प्रतीत्य विशेषोपयोगं वा । तथा तल्लेश्यः तत्स्थशुभपरिणामविशेष इति भावना। उक्तं च -
कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते॥शा
] तथा तदध्यवसितः, इहाध्यवसायोऽध्यवसितम्, तच्चित्तादिभावयुक्तस्य सतः तस्मिन् आवश्यक एवाध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः । तथा
तत्तीव्राध्यवसान:, इह प्रारम्भकालादारभ्य सन्तानक्रियाप्रवृत्तस्य तस्मिन्नेव तीव्रम10 ध्यवसानंप्रयत्नविशेषलक्षणमस्येति समासः। तथा तदर्थोपयुक्तः, तस्यार्थस्तदर्थस्तस्मिन्नुप
युक्त: प्रशस्ततरसंवेगविशुद्धयमानस्याऽऽवश्यक एव प्रतिसूत्रं प्रत्यर्थं प्रतिक्रियं चोपयुक्त इति भावार्थः । तथा तदर्पितकरणः, इह करणानि रजोहरण-मुखवस्त्रिकादीनि, तस्मिन् आवश्यके यथोचितव्यापारनियोगेनार्पितानि न्यस्तानि करणानि येन स तथाविधः, द्रव्यत:
सम्यक् स्वस्थानन्यस्तोपकरण इत्यर्थः । तथा तद्भावनाभावितः असकृदनुष्ठानात् 15 पूर्वभावनाऽपरिच्छेदत एव पुन: पुन: प्रतिपत्तेरिति हृदयम्, सकृदनुष्ठानेऽपि प्रतिपत्तिसमय
भावनाऽविच्छेदादिति। उपसंहरन्नाह - अन्यत्र प्रस्तुतव्यतिरेकेणकुत्रचित् कार्यान्तरे मनः अकुर्वन्, मनोग्रहणं काय-वागुपलक्षणम्, अन्यत्र कुत्रचिन्मनो-वाक्कायानकुर्वन्नित्यर्थः। उभयकालम् उभयसन्ध्यम् आवश्यकं प्राग्निरूपितशब्दार्थं करोति निर्वर्त्तयति स खल्वावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया। सेत्तमित्यादि निगमनम्।
हे०२८] उक्तोनोआगमतोभावावश्यकद्वितीयभेदः, अथ तत्तृतीयभेदनिरूपणार्थमाहसे किं तंलोउत्तरियमित्यादि। अत्र निर्वचनम्-लोउत्तरियं भावावस्सयंजणमित्यादि। जंणं ति, णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः । तत्र श्राम्यतीति श्रमण: साधुः, श्रमणी साध्वी, शृणोति साधुसमीपे जिनप्रणीतांसामाचारीमिति श्रावकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org