________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ७२
श्रमणा: प्रशंसन्ति चिन्तयन्ति च-गुरोश्चेदित्थमालोच्यते तर्हि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोष:, आलोचनाया एव साध्यत्वात्।
एवं चान्यदा तत्र संविग्नगीतार्थः साधुः कश्चिदायातः । तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः - त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे। 5 तथाहि - गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्षं वह्निना
प्रदीपयति । तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते - अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यभक्त्यतिशयाद्रत्नस्तर्पयति । अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहन: सराजप्रासादं समस्तमपि तन्नगरं दहति स्म। ततोऽसौ राज्ञा दण्डितो
नगराच्च निष्कासितः। तदेवं यथा राज्ञा तस्य प्रशंसांकुर्वताआत्मानगरलोकश्च नाशितस्तथा 10 त्वमपि अस्याऽविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि । यदि
पुनरमुमेकं शिक्षयसि तदा तथाविधनृप इवसपरिकरो निरपायतामनुभवसि। तथाहि - अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः । ततो नगरदाहापायदर्शिना क्षितीशेन 'अरण्यंगत्वा किमित्थंनकरोषि?' इत्यादि-वचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च। एवं
त्वमपीत्याधुपनयो गतार्थः । इत्यादि बहु प्रकारंभणितोऽपि यावदसौ तत्प्रशंसातो न निवर्तते 15 तावत्तेनगीतार्थ-साधुनाशेषसाधवोऽभिहिता: - एषगणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति।
तदेवं तत् साध्वावश्यकप्रकारं सर्वं लोकोत्तरिकं द्रव्यावश्यकमिति। निगमयन्नाहसेतमित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकम्। एतद्भणने चज्ञशरीर-भव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति - सेत्तमित्यादि। एतत्समर्थने 20 चनोआगमतो द्रव्यावश्यकस्यसप्रभेदस्यसमर्थितत्वात्तदपि निगमयति -सेतंनोआगमतो इत्यादि। एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत् सोत्तरभेदमप्यवसितमतो निगमयति - सेत्तं दव्वावस्सयमिति तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः।
[सू० २३] से किं तं भावावस्सयं ? भावावस्सयं दुविहं पण्णत्तं । तंजहा- आगमतोय १, णोआगमतोय २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org