________________
अनुयोगद्वारसूत्रम् [सू० २३, २४-२७]
[चू० २३] से किं तं भावावस्सयं इत्यादि ।
[हा० २३] से किं तमित्यादि, अवश्यक्रियानुष्ठानादावश्यकम्, गुणानां वा आवश्यमात्मानं करोतीति आवश्यकम् । उपयोगाद्यात्मकत्वाद् भावश्चासावावश्यकं चेति समासः, भावप्रधानं वाऽऽवश्यकं भावावश्यकम् । द्विविधं प्रज्ञप्तम्, तद्यथा - आगमतो नोआगमतश्च ।
७३
[हे० २३] उक्तं सप्रपञ्चं द्रव्यावश्यकम्, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह - से किं तमित्यादि । अथ किं तद्भावावश्यकमिति । अत्र निर्वचनमाह - भावावस्सयं दुविहमित्यादि । वक्तृविवक्षितपरिणामस्य भवनं भावः । उक्तं च
भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिर्वदिहेन्दनाक्रियाऽनुभवात् ॥ १॥ [
[सू० २४] से किं तं आगमतो भावावस्सयं ? आगमतो भावावस्सयं जाणए उवउत्ते । सेतं आगमतो भावावस्सयं ।
Jain Education International
]
व्याख्या - वक्तुर्विवक्षितक्रियायाः विवक्षितपरिणामस्य इन्दनादेरनुभवनम् अनुभूतिस्तया युक्तो योऽर्थः स भाव- तद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः । निदर्शनमाह - इन्द्रादिवदित्यादि । यथा इन्दनादिक्रियानुभवात् परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः इत्यार्यार्थः ।
भावश्चासौ आवश्यकंचभावमाश्रित्य वा आवश्यकं भावावश्यकम् । तच्च द्विविधं 15 प्रज्ञप्तम्, तद्यथा - आगमतः आगममाश्रित्य नोआगमतः आगमाभावमाश्रित्य ।
5
For Private & Personal Use Only
10
[सू० २५] से किं तं नोआगमतो भावावस्सयं ? नोआगमतो भावावस्सयं 20 तिविहं पण्णत्तं । तंजहा - लोइयं १, कुप्पावयणियं २, लोगुत्तरियं ३ ।
।
[सू० २६] से किं तं लोइयं भावावस्सयं ? लोइयं भावावस्सयं पुव्वण्हे
www.jainelibrary.org