________________
अनुयोगद्वारसूत्रम् [सू० २१-२२]
साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक द्रव्यावश्यकमितिसमुदायार्थः।
इदानीमवयवार्थ उच्यते - तत्र श्रमणा: साधवस्तेषां गुणा मूलोत्तरगुणरूपाः, तत्र जीववधविरत्यादयो मूलगुणाः, पिण्डविशुद्धयादयस्तूत्तरगुणाः, तेषु मुक्तो योगो व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात् श्रमणगुणमुक्तयोगिनः । एते च जीववधादिविरतिमुक्त - 5 व्यापाराअपिमनसा कदाचित् सानुकम्पाअपिस्युरित्याह - षट्सुकायेषुपृथिव्यादिषु विषये निर्गता अपगता अनुकम्पा मन:सार्द्रता येभ्यस्ते तथा। निरनुकम्पताचिह्नमेवाऽऽह- हया इवतुरगा इव उद्दामा:, चरणनिपातजीवोपमर्दनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः। किमित्येवंभूतास्ते इत्याह - यतो गजा इव दुष्टद्विरदा इव निरङ्कशाः, गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः । अत एव घट्ट त्ति येषां जो श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवा- 10 वयविनोरभेदोपचारात् घृष्टाः। तथा मट्ठत्ति तैलोदकादिना येषां केशा:शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्त:, वन्तुप्रत्ययलोपान्मृष्टाः। तथा तुप्पोट्टत्ति तुप्रा म्रक्षिता मदनेन वा वेष्टिता: शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः । तथा मलपरीषहसहिष्णुतादूरीकृतत्वात् पाण्डुरो धौत: पटः प्रावरणं [च] येषां ते तथा । जिनानामनाज्ञया स्वच्छन्दं विहृत्य तीर्थकराज्ञाबाह्या: स्वस्वरुच्या विविधचेष्टाः कृत्वा 15 ततश्चोभयकालं प्रभातसमयेऽस्तमयसमये च, चतुर्थ्यर्थे षष्ठीति कृत्वा आवश्यकाय प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकंलोकोत्तरिकंद्रव्यावश्यकम्।अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं । नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावानोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति।
___ अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम् - वसन्तपुरे नगरेऽगीतार्थसंविग्नो 20 गच्छ एको विचरति । तत्र च श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेकः प्रतिदिनं पुर:कर्मादिदोषदुष्टमनेषणीयं भक्तादिगृहीत्वा महतासंवेगेन प्रतिक्रमणकाले आलोचयति। तस्मै च गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति - पश्यत, अहो ! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति । सुखं हि आसेवना क्रियते, दु:खं चेत्थमालोचयितुम्, तस्मादशठतयैवशुद्धोऽसौ। तथाचतंप्रशस्यमानं दृष्ट्वा तत्र अन्येऽप्यगीतार्थ- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org