________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ७०
5
चिन्तकाः । देवता-क्षितीश-मातापितृ-तिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा वैनयिका: । पुण्य-पाप-परलोकाद्यनभ्युपगमपराअक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभिः सह विरुद्धचारित्वात् । अंत्राऽऽह - ननु यद्येते पुण्याद्यनभ्युपगमपराः कथं तर्चेषां वक्ष्यमाणमिन्द्राद्युपलेपनं संभवति, पुण्यादिनिमित्तमेव तस्य सम्भवात् ? सत्यम्, किन्तु जीविकादिहेतोस्तेषामपि तत् संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा: तापसाः। श्रावका ब्राह्मणाः, प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद्ब्राह्मणत्वभावात्। अन्ये तु वृद्धश्रावका इत्येकमेवपदं
ब्राह्मणवाचकत्वेन व्याचक्षते। एतेषांद्वन्द्वसमास: । प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः। __ पाषण्डं व्रतम्, तत्र तिष्ठन्तीति पाषण्डस्था: । कल्लं पाउप्पभाताए इत्यादि पूर्ववद् 10 यावत्तेजसाज्वलतीति। इंदस्सवेत्यादि, तत्रेन्द्रः प्रतीत:, स्कन्दः कार्तिकेयः, रुद्रोहर:,
शिवस्त्वाकारविशेषधरः स एव व्यन्तरविशेषो वा, वैश्रवणो यक्षनायकः, देव:सामान्यः, नागोभवनपतिविशेषः, यक्ष-भूतौ व्यन्तरविशेषौ, मुकुन्दो बलदेवः। आर्या प्रशान्तरूपा दुर्गा, सैव महिषारूढा तत्कुट्टनपरा कोदृक्रिया। अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्यु
च्यते,अतस्तस्येन्द्रादेरुपलेपन-सम्मार्जना-ऽऽवर्षण-पुष्प-धूप-गन्ध-माल्यादीनि 15 द्रव्यावश्यकानि कुर्वन्ति। तत्र उपलेपनं छगणादिनाप्रतीतमेव, सम्मार्जनं दण्डपुञ्छना
दिना, आवर्षणं गन्धोदकादिना, शेषं गतार्थम् । तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम् । अत्र द्रव्यत्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भावनीयम् । निगमयन्नाह - सेत्तमित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकंद्रव्यावश्यकमित्यर्थः।
उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीर-भव्यशरीर-व्यतिरिक्तद्रव्यावश्यकद्वितीयभेदः । अथ तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि। अथ किंतल्लोकोत्तरिकं द्रव्यावश्यकम् ? अत्र निर्वचनमाह - लोउत्तरियं दव्वावस्सयं जे इमे इत्यादि, लोकस्योत्तरा: प्रधाना: लोकोत्तरा: साधवः, अथवा लोकस्योत्तरं प्रधानं लोकोत्तरं
जिनशासनम्, तेषु तस्मिन् वा भवं लोकोत्तरिकं द्रव्यावश्यकमिति व्याख्यातमेव । किं 25 पुनस्तदित्याह - जे इमे इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org