________________
आ.श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ६२
[हे० १८-२० ] उक्तो नोआगमतो द्रव्यावश्यक प्रथमभेदः, अथ द्वितीयभेदनिरूपणार्थमाह से किं तमित्यादि । अथ किं तद् भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह- भवियसरीरदव्वावस्सयं जे जीवे इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायार्हः, तद्योग्य इत्यर्थः, तस्य शरीरम्, तदेव भाविभावावश्यक5 कारणत्वाद् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकम्, किं पुनस्तत् ? इत्यत्रोच्यते - यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदम् आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः ।
साम्प्रतमवयवार्थ उच्यते - तत्र यः कश्चिद् जीवो जन्तुः योन्या योषिदवाच्यदेश10 लक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्रयस्तेन आत्तेन आदत्तेन वा गृहीतेन, प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, सेयकाले त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते अध्येष्यते, साम्प्रतं तु न तावदद्यापि शिक्षते तज्जीवाधिष्ठितं शरीरं 15 भव्यशरीरद्रव्यावश्यकम् । नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यम्, तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति । अत्राऽऽह - नन्वावश्यककारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ? न हि कार्याभावे वस्तुनः कारणत्वं युज्यते, अतिप्रसङ्गात्, अतः कथमस्य द्रव्यावश्यकता ? सत्यम्, किं तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तन्नयानुसारिणः पठन्ति - भाविनि भूतवदुपचारः [कातन्त्रपरि०] इति । अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति - यथा कोऽत्र दृष्टान्त इति । निर्वचनमाह- यथाऽयं मधुकुम्भो भविष्यतीत्यादि । एतदुक्तं भवति - यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भो घृतकुम्भो वेत्यादिव्यपदेशो दृश्यते, तथाऽत्राप्यावश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org