________________
अनुयोगद्वारसूत्रम् [सू० १८-२० ]
विधैश्वर्ययुक्त ईश्वर इति । तलवरः परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितः । माडम्बिकः छिन्नमडम्बाधिपः। कौटुम्बिकः कतिपयकुटुम्बप्रभुः । इभ्यः अर्थवान्, स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति । श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक् । सेनापति: नरपतिनिरूपितो हस्त्यश्व-रथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः । सार्थनायकः
६१
Jain Education International
गणिमं धरिमं मेज्जं पारिच्छेज्जं च दव्वजायं तु । घेणं लाभट्ठी वच्चइ जो अण्णदेसं तु ॥ १ ॥ निवबहुमओ पसिद्धो दीणा - ऽणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणो व्व लोए समुव्वहति ॥ २॥ [
10
1 प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः । कल्लं पादुप्पभाताए इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत्, यत: प्रज्ञापको द्वितीयायामेव (द्वितीययामे एव ?) प्रज्ञापयति, प्रादुः प्रकाशन इत्यर्थो धातु:, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यन्तोद्यमवतां सत्त्वानां तमावश्यककालमाह । फुल्लोत्पलकमलकोमलोन्मीलिते, इह उत्पलं पद्ममुच्यते, कमलस्तुआरण्यः पशुविशेषः, ततश्च फुल्लोत्पल-कमलयो: विकशितपद्म-कमलयोः कोमलम् अकठोरम् उन्मीलितं 15 दल-नयनोन्मीलितं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह । अह पंडरे पहाए, अथ आनन्तर्ये। तथा रत्तासोगेत्यादि, रक्ताशोकप्रकाश-किंशुक शुकमुख - गुञ्जार्द्धरागसदृशे, आरक्त इत्यर्थः । तथा कमलाकरनलिनिषण्डबोधके कमलाकरो हृदादिजलाश्रयस्तस्मिन्नलिनिषण्डं तद्बोधक इति, अनेन स्थलनलिनीव्यवच्छेदमाह, यद्वा कमलाकरनलिनिषण्डयोर्भेदेनैव ग्रहणम् । उत्थिते उद्गते सूर्ये सहस्ररश्मौ सहस्रकिरणे दिनकरे आदित्ये 20 तेजसा ज्वलति सति, विशेषणबहुत्वं महत्याशयशुद्धयर्थं कर्त्तव्यमिति ख्यापनार्थम्, यत्रैते सर्व एव विशेषा: सन्ति तस्मिन्नुदिते, अज्ञातज्ञापनार्थं वा विशेषणकलाप इति । मुहधोवणेत्यादि निगमनान्तं प्रायो निगदसिद्धमेव । नवरं पुष्प - माल्ययोरयं विशेष: - अग्रथितानि पुष्पाणि, ग्रथितं माल्यम्; विकशितानि वा पुष्पाणि, अविकशितानि माल्यम् । आरामोद्यानयोरप्ययं विशेषः - विविधपुष्पजात्युपशोभित आरामः, चम्पकवनाद्युपशोभितमुद्यानम्। 25
For Private & Personal Use Only
5
www.jainelibrary.org