SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ६३ अनुयोगद्वारसूत्रम् [ सू० १८-२०] द्रव्यावश्यकत्वमुच्यत इति भावः । निगमयन्नाह - सेत्तमित्यादि, तदेतद् भव्यशरीरद्रव्यावश्यकमिति। उक्तो नोआगमतो द्रव्यावश्यकद्वितीयभेदः, तत्तृतीयभेदनिरूपणार्थमाह - से किं तमित्यादि।अथ किं तत् ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ? निर्वचनमाह - जाणगसरीरभवियसरीरवइरित्ते दव्वावस्सए तिविहे इत्यादि । यत्र ज्ञशरीर- 5 भव्यशरीरयो: सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यां व्यतिरिक्तं भिन्नं द्रव्यावश्यकमुच्यते । तच्च त्रिविधं प्रज्ञप्तम्, तद्यथा - लौकिकं कप्रावचनिकं लोकोत्तरिकं च। तत्र प्रथमभेदं जिज्ञासुराह - से किं तमित्यादि । अत्र निर्वचनमाह - लोइयमित्यादि। लोके भवं लौकिकम्, शेषं तथैव। अत्र य एते राजेश्वर-तलवरादयःप्रभातसमये मुखधावनादि कृत्वा ततः पश्चाद् राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि 10 लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च । ईश्वरो युवराज: सामान्यमण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते - अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः । परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषितशिरास्तलवरः । यस्य पार्श्वत आसन्नमपरं ग्राम-नगरादिकं नास्ति तत् सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः । कतिपय- 15 कुटुम्बप्रभु: कौटुम्बिकः । इभो हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्यः, यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः । श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्ग: पुरज्येष्ठो वणिग्विशेष: श्रेष्ठी। हस्त्यश्व-रथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः। गणिमं धरिमं मेज्जं पारिच्छेज्जं च दव्वजायं तु। 20 घेत्तूणं लाभत्थं वच्चति जो अन्नदेसं तु॥१॥ निवबहुमओपसिद्धो दीणाणाहाण वच्छलो पंथे। सो सत्थवाहनामं धणो व्व लोए समुव्वहइ ।२।।[ एतल्लक्षणयुक्त:सार्थवाहः।प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः। कल्लंपाउप्पभाताए इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते।प्रभातस्यैव विशेषावस्था:प्राह - 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy