________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ५६
ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह - जाणगसरीरदव्वावस्सयं आवस्सए त्तीत्यादि, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरम्, ज्ञस्य शरीरं ज्ञशरीरम्, तदेव अनुभूतभावत्वाद् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकम्, किंतदित्याह - यच्छरीरकं संज्ञायां
कन् [पा० ५।३।७६, ८७] वपुरित्यर्थः, कस्य सम्बन्धीत्याह- आवस्सए त्तीत्यादि, 5 आवश्यकमिति यत् पदम्, आवश्यकपदाभिधेयंशास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारो
ऽनेके वा तद्गता अर्थाधिकारा गृह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि । कथंभूतं सदिदं ज्ञशरीरद्रव्यावश्यकं भवतीत्याह- व्यपगत-च्युत-च्यावितत्यक्तदेहं जीवविप्रमुक्तमित्यक्षरयोजना । इदानीं भावार्थः कश्चिदुच्यते- तत्र व्यपगतं चैतन्य -
पर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम्, अत एव च्युतम् उच्छ्वास10 नि:श्वासजीवितादिदशविधप्राणेभ्य: परिभ्रष्टम्, अचेतनस्य उच्छ्वासाद्ययोगात्, अन्यथा
लेष्टवादीनामपि तत्प्रसङ्गात, तेभ्यश्च परिभ्रंश: स्वभाववादिभि: कैश्चित् स्वभावत एव अभ्युपगम्यते, तदपोहार्थमाह- च्यावितं बलीयसाऽऽयु:क्षयेण तेभ्यः परिभ्रंशितम्, न तु स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वदा तत्प्रसङ्गात्, एवं च सति कथंभूतं तदित्याह
त्यक्तदेहम्। दिह उपचये पा० धा० १०८५, का० धा० २।६२] त्यक्तोदेह:आहारपरिणतिजनित 15 उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहण-परिणत्योरभावात्। एवमुक्तेन विधिना
जीवेन आत्मना विविधम् अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तम् । तदेतदावश्यकज्ञस्य शरीरकमतीतावश्यकभावस्य कारणत्वाद् द्रव्यावश्यकम् । अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात् नोशब्दस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भावः । ननु यदि
जीवविप्रमुक्तमिदंकथंतर्वस्य द्रव्यावश्यकत्वम्? लेष्ट्वादीनामपितत्प्रसङ्गात्, तत्पुद्गलानामपि 20 कदाचिदावश्यकवेत्तृभिर्गृहीत्वामुक्तत्वसम्भवादित्याशङ्कयाह-सेज्जागतमित्यादि, यस्मादिदं
शय्यागतंवासंस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपिब्रूयात्- अहो! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदम् आगृहीतमित्यादि यावदुपदर्शितमिति, तस्मादतीत-वर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां
सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वादिदर्शने पुनर्नेत्थम्भूतः प्रत्यय: 25 कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव कर-चरणोरु-ग्रीवादिपरिणामेनानन्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org