________________
अनुयोगद्वारसूत्रम् [सू० १६,१७]
नोआगमओ दव्वावस्सयं तिविहंपण्णत्तमित्यादि, नोआगमत इत्यत्र नोशब्दआगमस्य सर्वनिषेधे देशनिषेधे वा वर्त्तते। यत उक्तं पूर्वमुनिभिः -
आगमसव्वनिसेहेनोसद्दो अहवदेसपडिसेहे।
सव्वे जहणसरीरं भव्वस्स य आगमाभावा॥१॥[ ] व्याख्या - आगमस्यआवश्यकादिज्ञानस्य सर्वनिषेधेवर्त्तते नोशब्द:,अथवा तस्यैव 5 देशप्रतिषेधेवर्तते, तत्र सव्वे त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, णसरीरं ति ज्ञस्य जानत: शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकम् , भव्यस्य च योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकम् । कुत इत्याह- आगमस्य आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावात् । इदमुक्तं भवति- ज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः सर्वथाआगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्रपक्षेसर्वनिषेध- 10 वचनत्वादिति गाथार्थ: । देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा -
किरियागमुच्चरंतो आवासंकुणइभावसुन्नो उ।
किरियाऽऽगमो न होई तस्स निसेहो भवे देसे॥१॥[ ] व्याख्या- क्रियाम् आवर्तादिकां 'कुर्वन्' इत्यध्याहारः, आगमं च वन्दनकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यकं करोति सोऽपि नोआगमतः, इह 15 द्रव्यावश्यकमिति शेषः । अत्र च क्रिया आवर्तादिकाऽऽगमो न भवति, जडत्वात्, आगमस्य च ज्ञानरूपत्वात्, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति, क्रिया आगमो न भवतीत्यर्थः । अतो नोआगमत इति इह किमुक्तं भवति ? देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमितिगाथार्थः। तदेवं नोआगमतआगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा-ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं 20 ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम्।
[सू० १७] से किं तं जाणगसरीरदव्वावस्सयं ? जाणगसरीरदव्वावस्सयं- आवस्सए त्ति पदत्थाधिकारजाणगस्स जं सरीरयंववगयचुतचावितचत्तदेहंजीवविप्पजढंसेज्जागयंवासंथारगयंवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org