________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ४८
इति, कारणे कार्योपचारात्। हे०१५] इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते,
नेत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि।
आसज्ज उ सोयारं नए नयविसारओ बूया॥१॥ [आवश्यकनि० ७६१] 5 इति वचनात् । अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते । ते च मूलभेदानाश्रित्य नैगमादयः सप्त । तदुक्तम् -
नेगम-संगह-ववहार-उज्जुसुएचेव होइ बोधव्वे।
सद्दे य समभिरूढे एवंभूते य मूलनया।।१।। [आवश्यकनि० ७५४]
तत्र नैगमस्तावत् कियन्ति द्रव्यावश्यकानीच्छतीत्याह - नेगमस्सेत्यादि, 10 सामान्य-विशेषादिप्रकारेणनैक: अपितु बहवोगमा वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना
ककारस्य लोपान्नैगमः, सामान्य-विशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः। तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकम्, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वे द्रव्यावश्यके, त्रयो देवदत्त-यज्ञदत्त-सोमदत्ता अनुपयुक्ता
आगमतस्त्रीणि द्रव्यावश्यकानि । किं बहुना ? एवं यावन्तो देवदत्तादयोऽनुपयुक्ता15 स्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि । एतदुक्तं
भवति - नैगमो हि सामान्यरूपं विशेषरूपंचवस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत् सामान्यरूपमेव, ततो विशेषवादित्वस्येह प्राधान्येन विवक्षितत्वाद्यावन्त: केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुन: संग्रहवत्
सामान्यवादित्वादेकमेवेतिभावः। 20 एवमेव ववहारस्स वि त्ति, व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपः, तत्प्रधानो
नयोऽपि व्यवहारः, तस्यापि एवमेव नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति- व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरण-व्रणपिण्डीप्रदानादिके घट-निम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते, न पुनस्तदतिरिक्तं तत्सामान्यमिति
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org