________________
अनुयोगद्वारसूत्रम् [सू० १५]
एवं यावन्तोऽनुपयुक्ता देवदत्तादयस्तावन्त्येव तानि नैगमस्याऽऽगमतो द्रव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्य-विशेषाभ्युपगमप्रधानत्वात्, विशेषाणांच विवक्षितत्वात्।आह – एवं सामान्य-विशेषाभ्युपगमरूपत्वाद् अस्य सम्यग्दृष्टित्वि]प्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात् । उक्तं च -
दोहि विणएहिं नीतं सत्थमुलूएण तह वि मिच्छत्तं। जंसविसयप्पहाणतणेणअण्णोण्णनिरवेक्खो (क्खा?)॥१॥ [सन्मति०का गा० ४९]
एवमेवववहारस्स वि, एवमेव यथानैगमस्य तथा व्यवहारस्यापिएक: अनुपयुक्तो देवदत्तः आगमत एकं द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात्, व्यवहारस्य च विशेषायत्तत्वाद् विशेषव्यतिरेकेण च सामान्यासिद्धेः । विशेषाभ्युपगमसाम्यादतिदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेर्लाघवार्थं नैगमनयमतोपन्यासानन्तरं 10 व्यवहारनयमतोपन्यास इति।
संगहस्सेत्यादि, सङ्ग्रहस्यैको वाऽनेके वाऽनुपयुक्तो वा अनुपयुक्ता वा आगमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा से एगि त्ति तद् एकं द्रव्यावश्यकं सामान्यापेक्षया द्रव्यावश्यकम्, सामान्यमात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः।
उज्जुसुतस्सेत्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्त: आगमत एकं द्रव्यावश्यकम्, पृथक्त्वं नेच्छति । अयमत्र भावार्थः - वर्तमानकालभावि आत्मीयं चेच्छति, तस्यैवार्थक्रियासमर्थत्वात्, स्वधनवत्; अतीता-ऽनागत-परकीयानि तुनेच्छति, अतीता-ऽनागतयोर्विनष्टानुत्पन्नत्वात् परकीयस्य चस्वकार्याप्रसाधकत्वादिति।
तिण्हं सद्दणयाणमित्यादि, त्रयाणां शब्दनयानां शब्द-समभिरूद्वैवम्भूतानां ज्ञ: 20 अनुपयुक्तः अवस्तु अभाव इत्यर्थः । कस्मादिति कस्मात् कारणात् ? यदि ज्ञः अनुपयुक्तो न भवति, कुत एतत् ?, उपयोगरूपत्वाद् ज्ञानस्य, ततश्च ज्ञोऽनुपयुक्तश्चेत्यसम्भव एव।सेत्तमित्यादि, तदेतदागमतो द्रव्यावश्यकम्। आह - कोऽयमागमो नाम? इति, उच्यते, ज्ञानम्, यदिज्ञानम् कथमस्य द्रव्यत्वम्, भावरूपत्वाद्ज्ञानस्येति, सत्यमेतत्, किन्त्वागमस्य कारणमात्मा देहः शब्दश्च, द्रव्यं च कारणमुक्तम्, अतस्तत्कारणत्वादागम 25
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org