________________
अनुयोगद्वारसूत्रम् [सू०१५]
अत्राह – ननुभवत्वेवम्, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो येनोक्तमहीनाक्षरमिति, अत्रोच्यते- लोकेऽपि तावद्विद्या-मन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुन: परममन्त्रकल्पे सिद्धान्ते? तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थं विबुध-विद्याधरनरनिवहः श्रेणिकश्च सपुत्र:समाययौ। ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतन- 5 हेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन् किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ, पुनरुत्पतति पुनश्च निपतति। एवं चकुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः - किमित्ययं महाभाग:खेचरो विधुरितपक्ष: पक्षीवनभसि किञ्चिदुत्पत्य पुनर्निपततीति ? भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यैवमवादीत् - भो: खेचर! यदि मां समानसिद्धिकं करोषि तदा 10 त्वद्विद्याऽक्षरमुपलभ्य कथयामि । प्रतिपन्नं च तेन । अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीतिशेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य।सोऽपि संजातसंपूर्णविद्यो हष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गत: समीहितप्रदेशमिति एष दृष्टान्तः । उपनयस्त्वयम् – यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतम्, तदुपरमे च व्यथैव विद्या, तथेहापि हीनाक्षरतायामर्थभेदः, तभेदे क्रियाभेदः, तद्भेदे च 15 मोक्षाभावः, तदभावेच दीक्षादिग्रहणवैयर्थ्यमेवेति। एवमधिकाक्षरादिष्वपि दोषा: सदृष्टान्ता अभ्यूह्य वाच्याः।
[सू०१५] [१] णेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वास्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णिदव्वावस्सयाई, एवंजावइया अणुवउत्तातावइयाइंताई णेगमस्स आगमओदव्वावस्सयाई।
20 [२] एंवमेव ववहारस्स वि। [३] संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org