________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ४४
तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया प्रच्छनयाऽनवगतार्थादेर्गुरुंप्रतिप्रश्नलक्षणया परावर्तनया पुन: पुन: सूत्रार्थाभ्यासलक्षणया धर्मकथयाअहिंसादिधर्मप्ररूपणस्वरूपया वर्तमानोऽपि, अनुपयुक्तत्वात्' इति साध्याहारम् आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः।।
ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्तमानस्तद्भवति?, नेत्याह- नो अणुप्पेहाए त्ति,अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावात्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः । अत्राह पर: - कम्ह त्ति, ननु कस्माद्वाचनादिभिस्तत्र
वर्तमानोऽपि द्रव्यावश्यकम् ? कस्माच्चानुप्रेक्षया तत्र वर्तमानो न तथा ? इति प्रच्छका10 भिप्राय:, एवं पृष्टे सत्याह-अणुवओगोदव्वमितिकट्ठत्ति अनुपयोगोद्रव्यमिति कृत्वा,
उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपोगृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोग: पदार्थः, स विवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति इति कृत्वा अस्मात् कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं
भवति-उपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचना-प्रच्छनादय: संभवन्त्येव, तत्रेह 15 द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुप
युक्तत्वस्याध्याहारस्तत्र कृतः, अनुपयोगस्तुभावशून्यता, तच्छून्यंचवस्तुद्रव्यमेवभवतीत्यतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैवसंभवति, अतस्तत्र वर्तमानो न तथेति भावार्थः।
____ अत्राह - नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धेः 20 शिक्षितादिश्रुतगुणसमुत्कीर्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं
ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव च भवति, किं पुन: सदोषम् ?, उपयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदत: भावश्रुतमेव भवति । एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य
तथाविधफलशून्या एव संपद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादित: सदोषा अप्यमी 25 कर्ममलापगमायैवेत्यलं विस्तरेण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org