________________
अनुयोगद्वारसूत्रम् [सू० १४ ]
-
इहास्ति, न तु साक्षादागमः, एतच्च त्रितयमागमकारण त्वात् कारणे कार्योपचारादागम उच्यते, कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः ।
तत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वतः परेण वा क्वचित् पृष्टस्य यच्छीघ्रमागच्छति तज्जितम्, विज्ञातश्लोक - पद - वर्णादिसंख्यं मितम्, परि समन्तात् सर्व्वप्रकारैर्जितं परिजितम्, परावर्त्तनं कुर्व्वतो यत् क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम अभिधानम्, तेन समं नामसमम्, इदमुक्तं भवति - यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा उदात्तादयः, तैर्वाचनाचार्याभिहितघोषैः समं घोषसमम्, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसममिति भाव:, एक-द्वयादिभिरक्षरैर्हीनं हीनाक्षरम्, न तथा अहीनाक्षरम्, एकादिभिरक्षरैरधिक- 10 मत्यक्षरम्, न तथा अनत्यक्षरम्, अव्वाइद्धक्खरं ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि विपर्यस्तान्यक्षराणि यत्र तद् व्याविद्धाक्षरम्, न तथाऽव्याविद्धाक्षरम्, अव्वाइद्धमिति क्वचित् पाठः, तत्रापि व्याविद्धाक्षरयोगाद् व्याविद्धम्, न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लाङगलमिव स्खलति यत्तत् स्खलितम्, न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, 15 अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितम्, न तथाऽमीलितम्, एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पठतो व्यत्याम्रेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम्, अस्थानविरतिकं वा व्यत्याम्रेडितम्, न तथाऽव्यत्याम्रेडितम्, सूत्रतो बिन्दु - मात्रादिभिरन्यूनमर्थ तस्त्वध्याहारा -ऽऽकाङ्क्षादिरहितं प्रतिपूर्णम्, 20 उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम् । अत्राह - घोषसममित्युक्तमेव तत् क इह विशेष इति, उच्यते, घोषसममिति शिक्षाकालमधिकृत्योक्तम्, प्रतिपूर्णघोषं तु परावर्त्तनादिकालमधिकृत्येति विशेषः, कण्ठश्चौष्ठश्च कण्ठौष्ठमिति प्राण्यङ्गत्वात् समाहारः, तेन विप्रमुक्तं कण्ठौष्ठविप्रमुक्तम्, - मूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतम्, न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमितिभावः । 25
बाल-
Jain Education International
For Private & Personal Use Only
४३
5
www.jainelibrary.org