________________
अनुयोगद्वारसूत्रम् [सू० १४]
उवयोगा-ऽनुपयोगसंभवइत्यर्थः।
[ हा० १४ ] से किं तमित्यादि, आगमतो द्रव्यावश्यकं जस्स णमित्यादि, यस्य कस्यचिद्गमिति वाक्यालङ्कारे, आवश्यकमित्येतत्पदम्, इह चाधिकृतपक्षालम्बनं शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्तमानोऽपि द्रव्यावश्यकमिति क्रिया।अत्रच सुपांसुलुग् [पा०७/१।३९] इत्यादिना च्छन्दसि एन (इते?) शिक्षितमित्यपि 5 भवति । तत्र शिक्षितमिति अन्तं नीतम्, अधीतमित्यर्थः । स्थितमिति चेतसि स्थितम्, न प्रच्युतमिति यावत्। जितमिति परिपाटिं कुर्वतो द्रुतमागच्छतीत्यर्थः। मितमितिवर्णादिभिः परिसंख्यातमिति हृदयम् । परिजितमिति सर्वतो जितं परिजितम्, परावर्तनां कुर्वतो यदुत्क्रमेणाप्यागच्छतीत्यभिप्राय: । नाम्ना समं नामसमम्, नाम अभिधानम्, एतदुक्तं भवति – स्वनामवत् शिक्षितादिगुणोपेतमिति। घोषा: उदात्तादयः, वाचनाचार्याभिहितघोषैः 10 समं घोषसमम्।अक्षरन्यून हीनाक्षरम्, न हीनाक्षरमहीनाक्षरम्।अधिकाक्षरम् अत्यक्षरम्, नाधिकाक्षरमन त्य]क्षरमिति । विपर्यस्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिँस्तदव्याविद्धाक्षरम् । उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितम् । न मिलितममिलितम्, असदृशधान्यमेलकवन्न विपर्यस्तपद-वाक्य-ग्रन्थमित्यर्थः, असंसक्तपद-वाक्यविच्छेदं वेति । अनेकशास्त्रग्रन्थसङ्करात् अस्थानच्छिन्नग्रन्थनाद्वा न 15 व्यत्यानेडितं कोलिकपायसवभेरीकन्थावच्चेत्यव्यत्यानेडितम्।अस्थानच्छिन्नग्रन्थनेन व्यत्यानेडितं यथा - प्राप्तराज्यस्य रामस्य राक्षसा निधनं गते(ता इ)त्यादि । प्रतिपूर्ण ग्रन्थतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत् प्रतिनियतप्रमाणं छन्दसा वा नियतमानमिति, अर्थत: प्रतिपूर्णं नाम न साकाङ्कमव्यापकं स्वतन्त्रं वेति । उदात्तादिघोषाविकलं परिपूर्णघोषम्।आह - घोषसममित्युक्तम्, ततोऽस्य को विशेष: ? इति, उच्यते - घोषसममिति 20 शिक्षितमधिकृत्योक्तम्, प्रतिपूर्णघोषं तूच्चार्यमाणं गृह्यत इत्ययं विशेषः । कण्ठश्चौष्ठौ च कण्ठोष्ठम्, प्राण्यङ्गत्वादेकवद्भावः, तेन विप्रमुक्तमिति विग्रहः, नाव्यक्त(क्तं) बालमूकभाषितवत् । वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवाप्तम्, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति । सः इति सत्त्वः, णमिति वाक्यालङ्कारे, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org