________________
अनुयोगद्वारसूत्रम् [सू० १३,१४]
मित्यादि। तत्र द्रवतिगच्छति ताँस्तान् पर्यायानिति द्रव्यं विवक्षितयोरतीत-भविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावंवावस्त्वित्यर्थः, द्रव्यं च तदावश्यकं चद्रव्यावश्यकम्, अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामंवासाधुदेहादीत्यर्थः। द्रव्यलक्षणं च सामान्यत इदम् - भूतस्य भाविनोवा भावस्य हि कारणं तु यल्लोके।
5 तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥[ ] व्याख्या- तद् द्रव्यं तत्त्वज्ञैः कथितम्, यत् कथंभूतमित्याह-यत् कारणं हेतुः, कस्येत्याह-भावस्य पर्यायस्य, कथंभूतस्येत्याह-भूतस्य अतीतस्यभाविनोवाभविष्यतोवा, लोके आधारभूते, तच्च सचेतनं पुरुषादि अचेतनं च काष्ठादिभवति । एतदुक्तं भवति- यः पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणत: सोऽतीतस्येन्द्रादिपर्यायस्य 10 कारणत्वात् साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यताभावनीयेत्यार्यार्थः।
इत: प्रकृतमुच्यते-तच्चेह द्रव्यरूपमावश्यकं प्रकृतम्, तत्रावश्यकोपयोगाधिष्ठित: 15 साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागम: आवर्त्तादिका क्रिया चावश्यकमुच्यते, आवश्यफोपयोगशून्यास्तु ता एव देहा-ऽऽगम-क्रिया द्रव्यावश्यकम्, तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा-आगमत: आगममाश्रित्य नोआगमत:नोआगममाश्रित्य, नोशब्दार्थं यथावसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनार्थी।
[सू०१४]से किं तंआगमतो दव्वावस्सयं? आगमतोदव्ववस्सयं- 20 जस्स णं आवस्सए त्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमंअहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरंअक्खलियंअमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org