SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १२] ठवणा जो आगारो, सो वि य णामस्स णिरवेक्खो ॥ ४॥ [ 1 [ हे० १२] अत्र नाम-स्थापनयोरभेदं पश्यन्निदमाह - नाम-ठवणाणं को पइविसेसो त्ति । नाम-स्थापनयोः कः प्रतिविशेषः ?, न कश्चिदित्यभिप्रायः, तथाहिआवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे 5 क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह - नामं आवकहियमित्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्याऽस्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराऽप्युपरमते, स्थापना पुनरित्वरी स्वल्पकालभाविनी वा स्याद् यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भाव:, तथाहि - नाम आवश्यकादिकं मेरु-जम्बूद्वीप-कलिङ्ग-मगध-सुराष्ट्रादिकं वा यावत् स्वाश्रयोगोपालदारक- 10 देहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापित: स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते, पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा तु यावत्कथिका, तस्याश्च ‘अर्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना' इति व्युत्पत्तेः स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह - ननु यथा स्थापना काचिदल्पकालीना तथानामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्, सत्यम्, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षितइत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डला -ऽङ्गदादिविभूषित: 20 सन्निहितशची-वज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसतिनैवमिन्द्रादिनामश्रवणमात्रात्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्ति - समीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति । Jain Education International For Private & Personal Use Only ३५ 15 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy