________________
अनुयोगद्वारसूत्रम् [सू० ११]
काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारम् । कियन्तं कालं तत् क्रियत इत्याह-अल्पः कालो यस्य तदल्पकालम्, इत्वरकालमित्यर्थः । चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि । यत् पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः ।
इदानीं प्रकृतमुच्यते - जं णं ति, णमिति वाक्यालङ्कारे, यत् काष्ठकर्मणि वा चित्रकर्मणि वा यावत् वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा आवस्सए त्ति आवश्यक - तद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनैकेवा, कथंभूताः ? अत उच्यते - आवश्यकक्रियावानावश्यकक्रियावन्तो वा, ठवणा ठविज्जति त्ति स्थापनारूप: स्थाप्यते क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते क्रियन्ते, तत् स्थापनावश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । 10 काष्ठकर्म्मादिष्वावश्यकक्रियां कुर्व्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत् स्थापनावश्यकमिति तात्पर्यम् ।
३३
Jain Education International
अधुना अवयवार्थ उच्यते - तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः। चित्रकर्म चित्रलिखितं रूपकम् । पोत्थकम्मे वत्ति, अत्र पोत्थं पोतं वस्त्रमित्यर्थः, तत्रकर्म्म, तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकम्, तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म्म, तन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं ताडीपत्रादि तत्र कर्म्म तच्छेदनिष्पन्नं रूपकम् । लेप्यकर्म्म लेप्यरूपकम् । ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकम् । वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम्, अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकम् उत्थापयति तद्वेष्टिमम् । पूरिमं भरिमं पित्तलादिमयप्रतिमावत् । संघातिमं बहुवस्त्रादिखण्डसंघातनिष्पन्नं कञ्चुकवत् । अक्ष: चन्दनकः । वराटक: कपर्दकः । अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दा: पक्षान्तरसूचका:, यथासम्भवमेवमन्यत्रापि । एतेषु काष्ठकर्मादिषु आवश्यकक्रियां कुर्व्वन्तः एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम्, तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषु 25
For Private & Personal Use Only
5
15
20
www.jainelibrary.org