________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३२
वा कश्चिद् वस्त्रवेष्टनेनैवाऽऽवश्यकक्रियायुक्तं यतिमवस्थापयति । पूरिमं भरिमम्, सगर्भरीतिकादिभृतप्रतिमादिवत् । संघातिमं कंचुकवत् । अक्ष: चन्दनकः । वराटकः कपर्दकः । एतेषु एको वा आवश्यकक्रियावान् अनेके वा तद्वन्त: सद्भावस्थापनया
वाअसद्भावस्थापनयावा, तत्र तदाकारवतीसद्भावस्थापना, अतदाकारवती चासद्भाव5 स्थापनेति। उक्तं च -
अक्खे वराडए वा कढे पोत्थे व चित्तकम्मे वा। सब्भावमसम्भावंठवणाकायं वियाणाहि॥१॥ लेप्पगहत्थी हत्थि त्ति एस सब्भाविया भवे ठवणा।
होइ असब्भावे पुणहत्थि त्ति निराकिती अक्खो॥२॥[आवश्यकनि०१४३२-३३] 10 आवश्यकमिति क्रिया-क्रियावतोरभेदात् तद्वानेव गृह्यते, स्थापना स्थाप्यते
स्थापना क्रियते सेत्तमित्यादि तदेतत् स्थापनावश्यकम्।
हे० ११] इदानीं स्थापनावश्यकनिरूपणार्थमाह - से किं तमित्यादि। अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह- ठवणावस्सयं जण्णमित्यादि, तत्र स्थाप्यते
'अमुकोऽयम्' इत्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना काष्ठकर्मादिगतावश्यक15 वत्साध्वादिरूपा, सा चासौ आवश्यक-तद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम्, स्थापनालक्षणंचसामान्यत इदम्
_यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि।
लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥१॥[ ] इति, विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेद20 सूचकः, स चासावर्थश्च तदर्थो भावेन्द्र-भावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु
तदभिप्रायेण भावेन्द्राद्यभिप्रायेण क्रियते स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशिष्टं यदित्याह-यच्च तत्करणि, तेन भावेन्द्रादिना सह करणि: सादृश्यं यस्य तत् तत्करणि, तत्सदृशमित्यर्थः । चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, अतत्सदृशमित्यर्थः । किं पुनस्तदेवंभूतं वस्त्वित्याह- लेप्यादिकम्र्मेति, लेप्यपुत्तलिकादीत्यर्थः, आदिशब्दात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org