________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २६
पूर्वप्रक्रान्तावमर्शि, अतोऽयं समुदायार्थः- अथकिंतदावश्यकम्?, एवं प्रश्नेसति आचार्य: शिष्यवचनानुरोधेनादराधानार्थं प्रत्युच्चार्य निर्दिशति – अवश्यकर्त्तव्यमावश्यकम्, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अन्तं करोतीत्यन्तकः,प्राकृतशैल्या वा वस
निवासे [पा०धा० १००५, का० धा० १/६१४ ] इति गुणशून्यमात्मानमावासयति 5 गुणैरित्यावासकम्, चतुर्विधं प्रज्ञप्तम्, चतस्रो विधा अस्येति चतुर्विधं प्रज्ञप्तं प्ररूपितम्,
अर्थतस्तीर्थकृद्भिः सूत्रतो गणधरैः, तद्यथा- नामावश्यकमित्यादि।
हे० ७-९ ] तदेवं यस्माद् ‘इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग:' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं यस्माच्चाष्ट स्वनन्तरोक्त प्रश्नेष्वावश्यकं
श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात् किमित्याह - तम्हा इत्यादि। 10 यस्मात् प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणाऽऽवश्यकादिरूपतया निर्णीतं तस्मादा
वश्यकं निक्षेप्स्यामि, श्रुतं निक्षेप्स्यामि, स्कन्धं निक्षेप्स्यामि, अध्ययनं निक्षेप्स्यामि, इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, सच निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते।
तत्र निक्षेपणं निक्षेपो यथासंभवमावश्यकादेर्नामादिभेदनिरूपणम्। 15 तत्र जघन्यतोऽप्यसौ चतुर्विध इति नियमार्थमाह- जत्थ य गाहा। व्याख्या
यत्र च जीवादौ वस्तुनि यं जानीयात् निक्षेपं न्यासम्, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं निक्षिपेत् निरूपयेत् निरवशेषं समग्रम्, यत्रापि च न जानीयान्निरवशेषं निक्षेपभेदजालं तत्रापि नाम-स्थापना-द्रव्य-भावलक्षणं चतुष्कं निक्षिपेत्, इदमुक्तंभवति
यत्रतावन्नाम-स्थापना-द्रव्य-क्षेत्र-काल-भव-भावादिलक्षणाभेदाज्ञायन्ते तत्र तैः सर्वैरपि 20 वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ।
तत्र यथोद्देशं निर्देशः' इत्यावश्यकनिक्षेपार्थमाह-से किंतं आवस्सयमित्यादि। अत्र सेशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम् – अथ प्रक्रिया-प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचन-समुच्चयेषु[ ] इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org