________________
अनुयोगद्वारसूत्रम् [सू०७-९]
२७
किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थः- अथ किंस्वरूपं तदावश्यकम् ?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थं प्रत्युच्चार्य निर्दिशति- आवस्सयं चउव्विहमित्यादि, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानाम् आ समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम्, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयं ति प्राकृतशैल्या आवासकम्, तत्र वस निवासे [पा० धा० १००५, 5 का० धा० ११६१४] इति गुणशून्यमात्मानम् आ समन्तात् वासयति गुणैरित्यावासकम्, चउव्विहं पण्णत्तं ति चतस्रो विधा भेदा अस्येति चतुर्विधं प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, तद्यथा- नामावस्सयमित्यादि, नाम अभिधानम्, तद्रूपमावश्यकं नामावश्यकम्, आवश्यकाभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यक जीवादीत्यर्थः, तल्लक्षणं चेदम् -
10 यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम्।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा॥१॥ [ विनेयानुग्रहार्थमेतद्वयाख्या-यवस्तुन: इन्द्रादे: अभिधानम् इन्द्र इत्यादिवर्णावलीमात्रमिदमेव वा आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात् तन्नामेति संटङ्कः । अथ प्रकारान्तरेण नाम्नो लक्षणमाह - स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं 15 चेति, तदपि नाम, यत् कथंभूतमित्याह-अन्यश्चासावर्थश्चान्यार्थो गोपालदारकादिलक्षण: तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्धं सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह- तदर्थनिरपेक्षमिति, तस्य इन्द्रादिनाम्नोऽर्थः परमैश्वर्यादिरूपस्तदर्थः, सचासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षम्, गोपालदारकादौ तदर्थस्याभावात्, पुन: किंभूतं तदित्याह- पर्यायानभिधेयमिति, पर्यायाणां शक्र-पुरन्दरादीनामनभिधेयम् अवाच्यम्, 20 गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्र-पुरन्दरादिशब्दैर्नाभिधीयन्ते, अतस्तन्नामापि नाम-तद्वतोरभेदोपचारात् पर्यायानभिधेयमित्युच्यते । चशब्दो नाम्न एव लक्षणान्तरसूचकः । शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम् । तृतीयप्रकारेणापि तल्लक्षणमाहयादृच्छिकं च तथेति, तथा यत् तथाविधव्युत्पत्तिशून्यं डित्थ-डवित्थादिरूपं यादृच्छिकं 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org