________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविरवृत्तिभिः समेतम् २४
एवेति दर्शनार्थम् ।
[हे० ६] पुनरप्याह विनेयः - जइ आवस्सगस्सेत्यादि, यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि आवश्यकं णमिति वाक्यालङ्कारे, किमिति परिप्रश्ने, किमेकं
द्वादशाङ्गान्तर्गतमङ्गमिदम् उत बहून्यङ्गानि, अथैकः श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, 5 अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ
प्रश्नाः । तत्र श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यम्, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट्प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह-आवस्सयण्णमित्यादि।
अत्राह-नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन 10 एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाटोत्कालिकक्रमेणानन्तरमेवो
क्तत्वादिति, अत्रोच्यते - यत्तावदुक्तं 'नन्द्यध्ययन एवे'त्यादि तदयुक्तम्, यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति, कदाचिनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव
निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति । मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येय 15 इति चेत्, न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति । यच्चोक्तम् 'अत्राप्यङ्गबाह्योत्कालिकक्रमेणे'त्यादि तत्रापि समुदितानामुद्देश-समुद्देशा-ऽनुज्ञाऽनुयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे त्विदमेवोक्तम्-'इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोगः' इत्यतो भिन्नप्रस्तावत्वात्
पृच्छा क्रियते- आवस्सयण्णं किमित्यादि, विस्मरणशीलाल्पबुद्धिमाषतुषादि20 कल्पसाध्वनुग्रहार्थं वेत्यदोषः।
[सू०७] तम्हा आवस्सयंणिक्खिविस्सामि, सुयं णिक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं णिक्खिविस्सामि ।
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org