SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २० मनुयोगः, सूत्रार्थकथनमित्यर्थः, अथवा एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना सूत्रेण सहार्थस्य योगो अणुयोगः, तदुक्तम् - निययणुकूलो जोगो सुत्तस्सऽत्थेण जो य अणुयोगो।। सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो॥१॥ [ ]३। 5 तथाऽनुयोगस्य विधिर्वक्तव्यः, यथा प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सोऽप्यर्थो वाच्यः, तदुक्तम् - सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसतो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥ [आवश्यकनि० २४] 10 इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति ४ । तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथावाच्यम्, तत्रोद्यमी सूरिरुद्यमिनः शिष्या: १, उद्यमी सूरिरनुद्यमिनः शिष्या: २, अनुद्यमी सूरिरुद्यमिन: शिष्या: ३, अनुद्यमी सूरिरनुद्यमिनः शिष्या: ४ इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीय-तृतीययोस्तु काचित् कथञ्चिद्भवत्यपि ५।। 15 तथानुयोग: केन कर्त्तव्य इति तद्योग्यः कर्ताऽभिधानीयो, यदाह - देसकुलजातिरूवी संघयण-धिईजुओ अणासंसी। अविकंथणो अमाई थिरपरिवाडी गहियवक्को ॥१॥ 'थिरपरिवाडि'त्ति अविस्मृतसूत्रः। जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासण्णू ॥२॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू। आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ॥३॥ ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४॥ [कल्पभा० २४१-२४४] 25 सिवो त्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्तः उचित: प्रवचनसारं परिकथयितुम् ६ । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy