SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३-५] अंगबाहिरस्सेत्यादि, यद्यङ्गबाह्यस्योद्देशादिः तर्हि किमसौ कालिकस्य प्रवर्तते उत्कालिकस्य वा ? द्विधाऽप्यङ्गबाह्यस्य संभवादिति भावः, तत्र दिवस-निशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम् उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्णं शेषकालानियमेन पठ्यते तदुत्कालिकम् आवश्यकादि। अत्रगुरुः प्रतिवचनमाहकालियस्स वीत्यादि, कालिकस्याप्यसौ प्रवर्त्तते, उत्कालिकस्यापि, इदं पुन: प्रस्तुतं 5 प्रस्थापनं प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम्।। उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति- जइ उक्कालियस्सेत्यादि, यद्युत्कालिकस्योद्देशादिस्तत् किमावश्यकस्यायं प्रवर्त्तते उताऽऽवश्यकव्यतिरिक्तस्य ?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः 10 श्रावकैश्चोभयसन्ध्यमवश्यं करणादावश्यकं सामायिकादिषडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं भिन्नं दशवैकालिकादि, गुरुराह- आवस्सगस्स वीत्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किन्त्विदं प्रकृतं प्रस्थापनं प्रारम्भं प्रतीत्यावश्यकस्यानुयोगोनेतरस्य, सकलसामाचारीमूलत्वादस्यैवेहशेषपरिहारेणव्याख्यानादितिभावनीयम्, उद्देश-समुद्देशा-ऽनुज्ञास्त्वावश्यकस्य प्रवर्त्तमानाअप्यत्र नाधिकृताः, अनुयोगावसरत्वात्, 15 अतस्तत्परिहारेणोक्तम् – अणुओगो त्ति, अयमत्र भावार्थ:- अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथानिक्खेवेगट्ठ निरुत्त विहि पवित्ती य केण वा कस्स ? । तद्दार भेय लक्खण तदरिहपरिसा य सुत्तत्थो॥१॥ [कल्पभा० १४९, दशवै०नि०५] अस्या विनेयानुग्रहार्थं व्याख्या- इहानुयोगस्य निक्षेपो नाम-स्थापनादिको वक्तव्य: १। 20 __ तथाऽनुयोगस्यैकार्थिकानि वक्तव्यानि, यदाहअणुओगो य निओगो भास विभासा य वत्तियं चेव। एते अणुओगस्स य नामा एगट्ठिया पंच॥१॥[आवश्यकनि० १३१, कल्पभा० १८७] २। ___ तथाऽनुयोगस्य निरुक्तं वक्तव्यम्, तद्यथा- स्वाभिधायकसूत्रेण सहार्थस्य अनुनियत: अनुकूलो वा योग: अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादन- 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy