________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १८
[चू० ३-५] सुतणाणस्स० अनुयोग इत्यादि सुत्तं । इमं ति वट्टमाणकालासण्णतिरियपच्चक्खभावे । अंगा-ऽणंगादिविसेसणो पुणसद्दो, पट्ठवणं प्रारम्भः, प्रवर्त्तनेत्यर्थः । दिवस-णिसिपढम-चरिमासु जं पढिज्जति तं कालियं । जं पुण कालवेलावजं पढिज्जइ तं उक्कालियं।
अवस्सं जं उभयसंझकालं कज्जइ उभयसंझकाले वा जेण किरिया कज्जइ तं आवस्सगं । सेसं सव्वं वइरित्तं।
[हा० ३-५] जति सुतणाणस्सेत्यादि सर्वं निगदसिद्धं यावत् इमं पुण पट्ठवणं पडुच्च आवस्सगस्साणुओगो त्ति, नवरमिमां पुनरधिकृतां प्रस्थापनां प्रतीत्य, प्रारम्भ: [प्रस्थापना], प्रस्थापनामेनामाश्रित्याऽऽवश्यकस्य अवश्यं क्रियानुष्ठानादावश्यकं 10 तस्याऽनुयोगः अर्थकथनविधिः, तेनाधिकार इत्यर्थः । इहानुयोगस्य प्रक्रान्तत्वात् तद्गतवक्तव्यतालम्बनाया: खल्वस्या द्वारगाथाया: प्रस्ताव:, तद्यथा -
णिक्खेवेगट्ठ निरुत्त विही पवित्ती य केण वा कस्स। तद्दार भेद लक्खण तरिहपरिसा य सुत्तत्थो॥१॥ [कल्पभा० १४९, दशवै०नि० ५]
अस्याः समुदायार्थमवयवार्थं च ग्रन्थान्तरे स्वस्थान एव व्याख्यास्यामः, अत्र तु 15 कस्येति द्वारे इमं पुण पट्ठवणं पडुच्च आवस्सगस्स अणुओगो त्ति सूत्रनिपात:।
[ हे० ३-५] अत्र यथाभिहितमुपजीव्याह शिष्यः – यदीत्यादि, यद्युक्तक्रमण श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति ?, तत्राङ्गेषु प्रविष्टम् अन्तर्गतमङ्गप्रविष्टं श्रुतम् आचारादि,
तद्वाह्यं तु उत्तराध्ययनादि, अत्र गुरुर्निर्वचनमाह- अंगपविट्ठस्स वीत्यादि, अपिशब्दौ 20 परस्परसमुच्चयार्थी, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्त्तते, तद्बाह्यस्यापि, इदं पुनः प्रस्तुतं
प्रस्थापनं प्रारम्भं प्रतीत्य आश्रित्याङ्गबाह्यस्य प्रवर्त्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः।
अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विने य आह- जड़
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org