________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ६
एवाभिनिबोधिकमिति तथैव, आभिनिबोधिकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्, इन्द्रियपञ्चक-मनोनिमित्तो बोध इत्यर्थः । श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयत इति श्रुतं शब्दः, स चासौ कारणे कार्योपचाराद्ज्ञानं च श्रुतज्ञानम्, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपिश्रुतज्ञानमुच्यते।अवधानमवधि: इन्द्रियाद्यनपेक्षमात्मनःसाक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि: मर्यादा, तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते, तेषां मनसां पर्याया: चिन्तनानुगुणा: परिणामाः,
तेषु ज्ञानं मन:पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति 10 मन:पर्यायमिति कर्मण्यण् [ पा० ३।२।१], तच्च तद् ज्ञानं च मन:पर्यायज्ञानम् । केवलं
संपूर्णज्ञेयविषयत्वात् संपूर्णम्, तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति। अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेद
हेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । 15 अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनाम्न एव सकाशात् प्रतीयते,
उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृ-श्रोत्रो: प्रत्येकमनन्तर-परम्परभेदाच्चिन्तनीयम्, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनम्, श्रोतुश्च प्रकरणार्थपरिज्ञानम्, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं
तथापि सामर्थ्यादवसीयते, तथाहि - सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, 20 तदनुग्रहे च क्रमेण परमपदप्राप्ति: प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणा) विजानाति,
तत्परिज्ञाने चसकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायांच विप्रहाय हेयान्, उपादाय उपादेयान्, संप्राप्य प्रकर्षवच्चरणकरणम्, कृत्वाऽतिदुष्करतपश्चरणम्, अनुभूय विशदके वलालोकतः सकलत्रिलोकीतलसाक्षात्करणम्, प्रविश्य
सकलकर्मविच्छेदकर्तृ शैलेशीकरणम्, सकलमुक्तजनशरणं परमपदमधिगच्छतीति । 25 सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव - वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय
thg 9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org