SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आमुखम् __ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजय: तच्छिष्य: मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तः । __ एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्। - श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता। अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि। एतेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते। अनेकेभ्यो वर्षेभ्यःप्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभि: महान् ग्रन्थराशि: महता महता परिश्रमेण जैनसंघस्य पुरस्ताद् मुद्रयित्वा उपन्यस्तः। समग्रोऽपिजैनसंघ: तैरुपकृतः। अतस्तेषा मपि वन्दनं विदधामि। देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशद्वेश्वरपार्श्वनाथप्रभूणांपरमोपकारिणांपूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तश: प्रणिपातं विधाय अद्य भगवतो गौतमस्वामिनो दीक्षातिथौ जिनशासनस्थापनातिथौ च भगवतो महावीर-वर्धमानस्वामिनः करकमलेऽद्य भक्तिभरनिभरण चेतसा भगवद्वचनात्मकमेव पुष्परूपमेतं ग्रन्थं निधाय अनन्तश: प्रणिपातपूर्वकं भगवन्तं श्री महावीर महयाम्येतेन कुसुमेन। सं० २०५४ वैशाखशुक्लैकादशी गौतमस्वामिदीक्षातिथि: इत्यावेदयतिशासनस्थापनातिथिश्च पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारता. ७-५-९८ पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यवाव (जिल्ला-बनासकांठा) पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी गुजरातराज्यम् मुनि जम्बूविजयः पिन - ३८५५७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy