SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आमुखम् "पंचसए पणसीए विक्कामकालाओ झत्ति अत्थमिओ। हरिभद्दसूरिसूरो भवियाणं दिसउ कल्लाणं॥" इति तत्र तत्रोपलभ्यमानगाथानुसारेण वैक्रमे ५८५ वर्षे आचार्यश्री हरिभद्रसूरयो दिवंगता इति परम्परानुसारिण आमनन्ति। अपरे तु इतिहाससंशोधका हरिभद्रसूरिनिर्दिष्टग्रन्थकाराणां समयं मनसि निधाय वैक्रमेऽष्टमे शतके हरिभद्रसूरय आसन्निति कल्पयन्ति संभावयन्ति वा। ___ अनुयोगद्वारबृहद्वृत्तेर्विरचयितारो हर्षपुरीयगच्छीया: मलधारिश्रीहेमचन्द्रसूरयो विक्रमस्य द्वादशे शतके गुर्जरदेशे सिद्धराजजयसिंहसमयेऽभूवन् इति तद्विरचितविशेषावश्यकभाष्यवृत्तेर्विलोकनात् स्पष्टमवसीयते। अस्माकं संशोधन-सम्पादनपद्धतिः - संशोधनावसरे हस्तलिखितादर्शेषु ये पाठा उपलब्धास्तत्स्थाने शुद्धा: शुद्धतरा वा ये पाठा अस्माभिः सम्भावितास्ते पाठा: ( ) एतादृशकोष्ठकमध्येऽत्र मूले टिप्पणेषु च निवेशिताः, ये तु पाठा आवश्यका: इति मत्वा अस्माभिरस्मत्कल्पनया संपूरितास्ते [ ] एतादृशे चतुरस्र कोष्ठके निवेशिताः। __किञ्चान्यत्, हस्तलिखितादर्शेषु पूर्वमन्यल्लिखित्वा पश्चात् केनचिद् विहितं संशोधनमपि दृश्यते । ईदृशेषु स्थलेषु पूर्वलिखित: पाठोऽपि अनेकेषु स्थानेषु समीचीन इत्यस्माकं मतिः । एतज्ज्ञापनार्थं तत्तत्संकेतैः सह मू० इति सं० इति वा संयोज्य अनेकेषु स्थानेषु अस्माभि: संकेतितम्, यथा पामू० = पा० प्रतौ पूर्वं लिखित: मूलपाठः, पासं० - पा० प्रतौ पश्चात् केनचित् संशोधितः पाठः । एवं जे१ इत्यत्र जेमू०१, जेसं०१ इत्यादिष्वपि ज्ञेयम्। धन्यवादः - अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यत: किमपि साहायकं लब्धं तेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि। विशेषतस्तु इमे सहायका: - अस्या जैनागमग्रन्थमालाया: प्रकाशने बीजभूता: प्रेरकाश्च स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । एतद्ग्रन्थसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संगृहीताऽऽसीत् । अस्य मूलमात्रस्य अनुयोगद्वारसूत्रस्य त्रिंशतो वर्षेभ्य: प्राक् अतिविशिष्टरूपेण संशोधका: सम्पादकाश्चापि त एव । अत एवाद्यसंशोधकत्वेन तेषां नामोल्लेखोऽस्माभिर्विहितः। अतो विशेषेण तेषां चरणयोर्वन्दनं विदधामि। परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्रे पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायु: मम माता साध्वीजीश्री मनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते। लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतोममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजय: सदा मे मानसिकं बलं पुष्णाति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy