________________
श्रीसिद्धाचलमण्डन-श्रीऋषभदेवस्वामिने नमः।
श्रीअजितनाथस्वामिने नमः। श्रीगोडीजीपार्श्वनाथाय नमः। श्रीशद्वेश्वरपार्श्वनाथाय नमः। श्रीमहावीरस्वामिने नमः।
श्रीगौतमस्वामिने नमः। पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः। पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपद्मभ्यो नमः।
आमुखम्। अनन्तोपकारिण: परमकृपालो: परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च श्रीजिनदासगणिमहत्तरविरचिताम् अनुयोगद्वारचूर्णिं याकिनीमहत्तरासून्वाचार्यप्रवरश्री हरिभद्रसूरिविरचितां विवृतिम् आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितां बृहतीं वृत्तिं च तालपत्रोपरिलिखितविविधादर्शानुसारेण संशोध्य सम्पाद्य च तत्समलङ्कृतम् अनुयोगद्वारसूत्रम् आगमाभ्यासिनाम् आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।
चत्वारि अनुयोगद्वाराणि - उपक्रम: १, निक्षेप: २, अनुगम: ३, नय: ४। तत्र उपक्रमस्यापि आनुपूर्वी १, नाम २, प्रमाणम् ३, वक्तव्यता ४, अर्थाधिकार: ५, समवतार: ६ इति षट् प्रतिद्वाराणि। अनुयोगद्वारसूत्रेसर्वमीलनेन६०६सूत्राणिसन्ति। तेषु१त: ३१२ यावत् नामद्वारपर्यन्तमनुयोगद्वारसूत्रमेव अस्मिन् प्रथमे विभागे व्याख्यात्रयेण पञ्चभिः परिशिष्टैश्च सह मुद्रितम् । ३१३ त: ६०६ यावत् अपरमवशिष्टमनुयोगद्वारसूत्रं द्वितीये विभागे विविधैः परिशिष्टैः सह मुद्रयिष्यते।
आगमप्रभाकर पूज्यमुनिराजश्री पुण्यविजयजीमहाभागै: पं० दलसुखभाई मालवणियापं० अमृतलाल मोहनलाल भोजकसहकारेण तालपत्राद्युपरिलिखितान् विविधानादर्शानवलम्ब्य महता परिश्रमेण संशोधनं सम्पादनं च विधाय त्रिंशतो वर्षेभ्य: प्राग् विक्रमसं. २०२४ मध्ये मुंबईनगरस्थितस्य श्री महावीरजैनविद्यालयस्य जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क १ मध्ये अनुयोगद्वारसूत्रम् प्रकाशितमासीत् । तदेवात्रास्माभि: मूलरूपेण स्वीकृतमस्ति । तत्रस्थानि सर्वाणि पादटिप्पणानि प्रथमपरिशिष्टमध्येऽत्रास्माभिः सूत्राङ्कानुसारेणोपदर्शितानि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org