________________
प्रमाणसंख्या-परीक्षा : ६३ न पुनरेकदैव नवं पुराणं चैकमिति व्याधातासम्भवे कथमनेकस्यापि सर्वज्ञस्य कालभेदेन नवमिति पुराणमित्युपदिशत स्तत्त्ववचनव्याघातः । इत्यल मनायेकेश्वरकल्पनया, तत्साधनोपायासम्भवात् ।।
$ १६९. सोपायविशेषसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्धश्चिरतरकालोच्छिन्नस्य परमागमस्य प्रबन्धेनाभिव्यंजकोऽनुवादक इति प्रयत्नानन्तरमभिव्यक्तः कथंचित्प्रयत्नानन्तरोयकत्वं कथंचित्पौरुषेयत्वं साधयेत् । तथा हि
परमागमसन्तानमनादिनिधनक्रमम् । नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥ यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् । तथाऽन्योऽपि तमेवं चानादिः सर्वज्ञसन्ततिः ॥ २ ॥ सिद्धा, तत्प्रोक्तशब्दोत्थं श्रतज्ञानमशेषतः । प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ।। ३ ।। ततो बाह्यं पुनधा पौरुषेयपदक्रमात् । जातमार्षादनार्षाच्च समासव्यासतोऽन्वितात् ।। ४ ।। तत्रार्षमृषिभिः प्रोक्ताददुष्टैर्वचनक्रमात् । समुद्भूतं श्रुतज्ञानं प्रमाणं बाधकात्ययात् ।। ५ ।। अनार्षं तु द्विधोद्दिष्टं समयान्तरसंगतम् । लौकिकं चेति तन्मिथ्या प्रवादिवचनोद्भवम् ॥ ६ ॥ दुष्टकारणजन्यत्वादप्रमाणं कथं च न ।
सम्यग्दृष्टेस्तदेतत्स्यात्प्रमाणं सुनयार्पणात् ।। ७ ।। $ १७०. नन्वेवम दुष्टकारणजन्यत्वेन श्रुतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानं प्रमाणं' स्यात्, पुरुषदोषरहितया चोदनया सर्वथाऽप्यपौरुषेयजनितत्वात् । तदुक्तम्
चोदनाजनिता बुद्धिः प्रमाण दोषवजितैः । कारणैर्जन्यमानत्वाल्लिगाप्तोक्त्यक्षबुद्धिवत् ॥१॥ [ ] इति ।
1. 'व्याघातासम्भवः' स । 2. 'भित्युपदेशतस्तत्त्व-' म्। 3. 'इत्यलमत्रानाये-'स। 4. 'सोपायसिद्धस्तु' मु। 5. 'सिद्धः निरतकालोच्छन्नस्य' मु । 6. 'नन्वदुष्ट-' मु। 7. 'चोदनाज्ञानस्य प्रामाण्यं' मु अ इ। 8. 'पुरुषदोषरहिता. याश्चोदनायाः' मु। 9. 'इति' नास्ति मु स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org