________________
६२ : प्रमाण-परीक्षायां पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्' [ ] इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासम्भवे पुनरुक्तस्यैव सिद्धेः । ततः कस्यचित्स्वयंकृतं काव्यं पुनर्वदतोऽनुवादकत्वे महेश्वरः सदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरोत्तरवा दस्यानुवादरूपत्वात् ।
६१६७. न च पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्वरः करोतीति घटते, तेषां कुतश्चित्प्रमाणादप्रसिद्धः। प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात अथाशक्तरुत प्रयोजनाभावादिति । न तावदज्ञानात, सर्वज्ञत्वविरोधात, तस्य सर्वप्रकारवर्णपदवाक्यवेदित्वसिद्धेः4, अन्यथाऽनीश्वरत्वप्रसंगात् । नाप्यशक्तेः, ईश्वरस्यानन्तशक्तित्ववचनात् । यदि ह्येकदा कानिचिदेव वर्णादीनि प्रणेतुमीश्वरस्य शक्ति - न्यानि, तदा कथमनन्तशक्ति: स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतोति चेत्, न, सकलवाचकप्रकाशनस्यैव प्रयोजनत्वात्, सकलवाच्यार्थप्रकाशनवत्, सकलजगत्करणवद्वा' । प्रतिपाद्य जनानुरोधात्केषाचिदेव वर्णादीनां प्रणयने जगदुपभोक्तृप्राण्यनुरोधात्केषांचिदेव जगत्का
र्याणां करणं स्यात्, न सर्वेषाम् । तथा चेश्वरेणाकृतैः कार्यैः कार्यत्वादिति हेतुर्व्यभिचारित्वान्न सर्वकार्याणामीश्वरनिमित्तत्वं ( त्तकत्वं ) साधयेत् ।
$ १६८. न च सकलप्रकारवर्णादिवाचकप्रपंचं जिज्ञासमानः कश्चिप्रतिपाद्य एव न सम्भवतीति वक्तमुचितम्, सर्वज्ञवचनस्याप्रतिग्राहकत्वप्रसंगात् । तत्सम्भवे च सर्गे सर्गे सकलवर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यात्, न पुनरुत्पादकः सर्वदैवेति सिद्धम् । ततोऽनेक एक सर्वज्ञोऽस्तु किमेकेश्वरस्य10 कल्पनया । यथा चैको नवमिति वदति तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात वस्तुव्यवस्थानासम्भवस्तथैकस्यापीश्वरस्याने कसर्गकालप्रवृत्ता11बनेकोपदेशाभ्यनुज्ञानात् । तत्र पूर्वस्मिन्सर्गे यन्नवमित्युप देशीश्वरेण तदेवोत्तरस्मिन्स पुराणमित्युपदिश्यते
1. '.."स्यैवासिद्ध:' स। 2. एक एव 'पुनः' शब्दः । द्वितीयो नास्ति स। 3. ..."रोत्तरस्यानुवाद-' मु अ। 4. 'वेदित्यसिद्ध:' मु। 5. 'अनन्ता शाक्तिः ' ब स इ। 6. '.."वाच्यार्थप्रकाशन प्रयोजनवत्' स । 7. ..."जगत्कारण-', मु अ 'जगत्तरण-' स। 8. 'ईश्वरकृतैः' मु। 9. 'वक्तुं युक्तं मु। 10. 'ईश्वरकल्पनया' स इ। 11. 'प्रवृत्तानेक.' स । 12. 'नवमित्युप-' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org