________________
प्रमाणसंख्या-परीक्षा : ६१ तंत्र्यपरिहरणात्पारततंत्र्यानुसरणादिति चेत्, तहि यथा वर्णानां पठितानुवादकः तथा तत्पाठयिताऽपि', तस्यापि स्वातंत्र्याभावात्, सर्वस्य स्वोपाध्यायपरतंत्रत्वात् । तत एवं वक्तव्यम्
नेह वर्णान्नरः कश्चित् स्वातंत्र्येण प्रपद्यते । यथैवाऽस्मै परैरुक्तास्तथैवेतान्विवक्ष्यति' ।। १ ।। परेऽप्येवं विवक्ष्यन्ति तस्मादेषामनादिता ।
प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ।। २ ।। $ १६५. तथा च सर्वज्ञोऽप्यनुवादक एव, पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्ठिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् । तस्य पूर्वसर्वज्ञोदितवर्णानुपलम्भे पुनरसर्वज्ञत्वप्रसक्तिः । तदेवमनादिसर्वज्ञसन्ततिमिच्छतां न कश्चित्सर्वज्ञो वर्णानामुत्पादकः, तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तम्, प्रवचनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामेवोत्तरोत्तरसर्वज्ञेनानुवादात् । सर्वदांगप्रविष्टांगबाह्यश्रुतस्य शब्दात्मनो द्वादश विकल्पानेकविकल्पस्यान्यादशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादनायोगात्।
$ १६६. स्यान्मतम्-महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादक: प्रथमं सृष्टिकाले जगतामिवोपपन्नः, तस्य सर्वदा स्वतंत्रत्वात्, सर्वज्ञान्तरपरतंत्रतापायात्, तदनुवादकत्वायोगात्, इति; तदप्यसत्यम्; तस्यानादेरेकस्येश्वरस्याऽऽप्तपरीक्षायां [का० १०, पृष्ठ ५० ] प्रतिक्षिप्तत्वात. परीक्षाक्षमत्वाभावात, कपिलादिवत् । सम्भवन्वा' सदैवेश्वरः सर्वज्ञो ब्राह्मण मानेन वर्षशतान्ते वर्षशतान्ते जगतां सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तरस्मिन्नुत्तरस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न स्यात् । न ह्येक:11 कविः स्वकृतकाव्यस्य पुनः पुन1वक्ताऽनुवादको न स्यादिति वक्तं युक्तम् । “शब्दार्थयोः
1. 'तथा पाठयितापि' म स । 2. विवक्ष्यते', मुस । 3. 'अनुवादनात्' 'अ ब इ। 4. 'प्रसक्तेः ' ब इ। 5. 'पदवाक्यात्मत्वा-' मु स अ । 6. 'उत्पादकायोगात्' अ ब । 7. 'संभवे वा' मु। ४. 'सदैवैश्वरः' मु । 9. वर्षशतान्ते' नास्ति स। 10. 'भवेत्' मु। 11. स प्रती 'नोकः' इत्यस्मात्पाठात्पूर्व 'युगं द्वादशसहस्रं कल्पं प्राहुश्चतुयुगम् । तेषां दशसहस्रं तु बाह्य तदहरुच्यते' इतीदं पद्यमुपलभ्यते ।- सम्पा० । 12. स प्रती एक एव 'पुनः' शब्द उपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org