________________
६० : प्रमाण-परीक्षायां
वद्वक्तकशब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासम्भाव्यमानत्वात् । तथा व्याहतत्वाच्च । कथंचिदपौरुषेयशब्दजनितश्रुतज्ञानस्य तु गुणवद्व्याख्यातक शब्दजनितत्वेनादुष्टकारणजन्यत्वं सिद्धयेत् । ततश्च सत्यत्वमिति स्याद्वादिनां सर्वमनवा' पर्यायाथिकनयप्राधान्याद्रव्याथिकनयगुणभावाच्च श्रुतज्ञानस्य गुणवद्वक्तृकशव्दजनितत्वसिद्धेः, द्रव्यार्थिकप्राधान्यात्पर्यायार्थिकगुणभावाच्च गुणवव्याख्यातृकशब्दजनितत्वोपपत्तेश्च । न च सर्वथा पौरुषेयः शब्दोऽपौरुषेयो वा प्रमाणतः सिद्धयेत् ।
$ १६४. ननु च विवादापन्नः शब्दः पौरुषेय एव प्रयत्नानन्तरीयकत्वात्, पटादिवत्, इत्यनुमानादागमस्य द्वादशांगस्यांग बाह्यस्य चानेकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवत्, इति कश्चित्, सोऽप्येवं पृष्टः सन्नाचष्टाम्- किं सर्वथा प्रयत्नानन्तरीयकत्वहेतुः कथंचिद्वा। सर्वथा चेत्, अप्रसिद्धः', स्याद्वादिनो द्रव्यार्थादेशादप्रयत्नानन्तरीयकत्वादागमस्य । कथंचिच्चेद्विरुद्धः, कथंचिदपौरुषेयत्वसाधनात् । प्रयत्नानन्तरोयकत्वं हि प्रवचनस्योच्चारकपुरुषप्रयत्नानन्तरोपलम्भात् स्यात्, उत्पादकपुरुषप्रयत्नानन्तरोपलम्भाद्वा। प्रथमकल्पनायामुच्चारकपुरुषापेक्षया10sपौरुषेयत्वमेव तस्य11 सम्प्रति पुराणपुरुषोत्पादितकाव्यप्रबन्धस्येव प्रसक्तम्, न पुनरुत्पादकपुरुषापेक्षया, प्रवचनस्यनादिनिधनस्योत्पादकपुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत्, वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्योत्पादकः स स्यात् । न तावद्वर्णात्मनः, वर्णानां प्रागपि भावात् । तत्सदृशानां पूर्व भावो न पुनस्तेषां घटादीनामिवेति चेत्, कथमिदानीमनुवादकस्तेषामुत्पादको न स्यात् । तदनुवादात्प्रागपि तत्सदृशानामेव सद्भावात्तेषामनूद्यमानानां तदैव सद्भावात् । तथा च न कश्चिदनुवादको नामा वर्णानाम्, सर्वस्योत्पादकत्वसिद्धेः । यथैव हि कुम्भादीनां कुम्भाकारादिरुत्पादक एव, न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः । पूर्वापलब्धवर्णानां साम्प्रतिकवर्णानां च सादश्यादेकत्वोपचारात्पश्चाद्वादकोऽनुवादक एवा13 सावाह वर्णान्नाहमिति स्वा
1. 'गुणवद्वक्तृकशब्द-' मु। 2. 'ततः' स। 3. 'नय-' नास्ति स। 4. 'सिद्धयते' मु। 5. 'समाचष्टाः ' स। ७. 'प्रयत्नांनंतरीयत्वहेतु' मु। 7. 'अप्रसिद्धः' मु। 8. 'अर्थादिप्रयत्नांनंतरीय-' मु। 9. 'प्रयत्नांनंतरमुपल-' अस। 10. प्रतिषु .."पुरुषापेक्षया पौरुषेय.' इति पाठः । 11. पौरुषेयत्वमेतस्य' बस इ। 12. 'कश्चिदुत्पादको वर्णानां' मुस । 13. 'एव । असा-' मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org