________________
प्रमाणसंख्या-परोक्षा : ५९ ततोऽर्थं परिच्छिद्य प्रवर्तमानस्य विसंवादाभावात्, सर्वदाऽर्थक्रियायां संवादप्रसिद्धः, प्रत्यक्षादिवत् ।
$ १६१. ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादर्थं प्रतिपद्य प्रवर्तमानस्यार्थक्रियायामविसंवादस्य क्वचिदभावान्त प्रामाण्यम्, सर्वत्रानाश्वादिति चेत्; न; प्रत्यक्षादेरपि तथात्वप्रसंगात्, शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रवर्तमानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात्, सर्वत्र प्रत्यक्षेऽनाश्वासादप्रामाण्यप्रसंगात् । प्रत्यक्षाभासे विसंवाददर्शनान्न प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत्, तहि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धः सत्यश्रतज्ञाने कथमनाश्वासः । न च सत्यं श्रुतज्ञानमसिद्धम, तस्य लोके प्रसिद्धत्वात् सुयुक्तिसद्भावाच्च । तथा हि-श्रोत्रमतिपूर्वकं श्रुतज्ञानं प्रकृतं सत्यमेव, अदुष्टकारण जन्यत्वात्, प्रत्यक्षादिवत् । तद्विविधम्, सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चो भयमदुष्ट कारणजन्यम्, गुणवद्वक्तृकशब्दजनितत्वात्।
६ १६२. ननु च नद्यास्तीरे मोदक राशयः सन्तीति प्रहसनेन गुणवद्वक्तृकशब्दादुपजातस्यापि श्रुतज्ञानस्यासत्यत्वसिद्ध व्यभिचारि गुणवद्वक्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये, ततो न सत्तद्गमकम्; इति न मन्तव्यम्; प्रहसनपरस्य वक्तुर्गुणवत्त्वासिद्ध :, प्रहसनस्यैव दोषस्वात्, अज्ञानादिवत् ।
$ १६३. कथं पुनर्विवादापन्नस्य श्रोत्रमतिपूर्वकस्य' श्रुतज्ञानस्य गुणवक्तृकशब्दजनितत्वं सिद्धम्, इति चेत्, सुनिश्चितासंभवद्बाधकत्वात्, इति भाषामहे । प्रत्यक्षे ह्यर्थे प्रत्यक्षस्यानुमेयेऽनुमानस्यात्यन्तपरोक्षे चागमस्य बाधकस्यासम्भवादसम्भवबाधकत्वं तस्य सिद्धम् । देशकालपुरुषान्तरापेक्षयाऽपि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमपि सिद्धं साधनस्येति नासिद्धताशंकाऽवतरति । नाप्यनैकान्तिकता, विपक्षे क्वचिदसंभवात् । न विरुद्धता, सुनिश्चितासम्भवद्बाधकस्य10 श्रुतज्ञानस्यागुण
1. 'वर्तमान-' मुइ। 2. ... वादकस्य' मु स । 3. 'तथात्वप्रसंगात्' इत्यं पाठः केवलं 'स' प्रतावुपलभ्यते । स चावश्यको युक्तश्च । 4. 'सुयुक्तिकसद्भावाच्च' मु। 5. 'उपजनितस्यापि' मु। 6. 'वक्तव्यं' ब। 7. 'श्रोत्रमतिपूर्वकश्रुत' म ब अ इ। 8. 'शंकां' स । 9. 'नाप्येनैकान्तिकता' स । 10. """सम्भवबाधकश्रुत-' अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org