________________
५८ : प्रमाण-परीक्षायां
$ १५८. तदेतत्साधनात्साध्यविज्ञानमनुमानं स्वार्थमभिनिबोध लक्षणं विशिष्टमतिज्ञानम्, साध्यं प्रत्यभिमुखान्नियमितात् साधनादुपजातस्य बोधस्य तर्कफलस्याभिनिबोध इति संज्ञाप्रतिपादनात् । परार्थमनुमान-6 मनक्षरश्रुतज्ञानमक्षरश्रुतज्ञानं च, तस्याश्रोत्रमतिपूर्वकस्य श्रोत्रमतिपूर्व. कस्य' च तथात्वोपपत्तेः । शब्दात्मकं तु परार्थानुमानमयुक्तम्, शब्दस्य प्रत्यक्षपरामशिन इवानुमानपरामशिनोऽपि सर्वस्य द्रव्यागमरूपत्व प्रतीतेः । कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थं न भवेत्, सर्वथाविशेषाभावात् । प्रतिपादकप्रतिपाद्य जनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धरुपचारादनुमानपरामशिनो वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथा, अतिप्रसंगादिति बोद्धव्यम् ।
$ १५९. तदेतत्10 परोक्षं प्रमाणम्, अविशदत्वात्, श्रुतज्ञानवत् [ इति ] |
[ मतिज्ञानाख्यं परोक्षप्रमाणमभिधायेदानों परोक्षभेदस्य
श्रुतज्ञानस्य स्वरूपमभिधीयते ] $ १६०. किं पुनः श्रुतज्ञानमिति; अभिधीयते11;-श्रुतज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषे ऽन्तरंगे कारणे सति बहिरंगे मतिज्ञाने चानिन्द्रिय विषयालम्बनमविशदं ज्ञान14 श्रुतज्ञानम् । केवलज्ञानतीर्थकरत्वनामपुण्यातिशयोदयनिमित्तकभगवत्तीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंग्रहीतं स्यादिति न शंकनीयम्, तस्यापि श्रोत्रमतिपूर्वकत्वात्, प्रसिद्धमतिश्रुतावधिमनःपर्ययज्ञानिवचनजनितप्रतिपाद्यजनश्रुतज्ञानवत्, समुद्रघोष-जलधरध्वानजनिततिदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा। ततो निरवद्यं श्रुतलक्षणम्, अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितत्वात्, अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणम्, अविसंवादकत्वात्, प्रत्यक्षानुमानवत् । न चासिद्धमविसंवादकत्वमस्येति शंकितव्यम्,
1. 'तदेत्' मु। 2. 'स्वार्थमाभिनिबोध-' स। 3. "विशिष्टं मतिज्ञान' स । 4. "नित्थमितात्' मु। 5. 'उपजातबोधस्य' मु। 6. 'परार्थानु मान-' ब। 7. 'तस्य श्रोत्रमतिपूर्वकस्य' मु अ । 8. 'शब्दस्य प्रत्यवमशिनोऽपि सर्वस्य' मु। 9. 'सर्वथा श्रोतमतिपूर्वकस्य विशेषात्' अ। 10. 'तदेत्' मु। 11. '...'ज्ञानमित्येतदभिधीयते' मु। 12. 'विशेषान्तरंगे' मु। 13. 'चाबाह्येन्द्रिय' स। 14. 'अवि' स इ । 15. '.."स्वनश्रुतिजनित-' मु। 16. 'श्रुतज्ञानलक्षणं' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org