________________
प्रमाणसंख्या-परोक्षा : ५७ $ १५५. यद'प्यवीतं वीतं वीतावीतमिति लिंगं त्रिविधमनुमन्यते तदपि नान्यथानुपपन्नत्वनियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुप्रपंचबहिभूतम्, समयान्तरभाषया केवलान्वय्यादित्रयस्यैव तथाविधानात् । क्वचित्साध्यसाधनधर्मयोः साहचर्यमविनाभावनियमलक्षणमुपलभ्यान्यत्र साधनधर्मदर्शनात्साध्यधर्मप्रतिपत्तिरवोतमुच्यते। यथा--गुणगणिनी परस्परतो भिन्नौ, भिन्न प्रत्ययविषयत्वात्, घटपटवदिति । तच्च केवलान्वयीष्यते, कथंचिद्भेद एव साध्ये ऽन्यथानुपपन्नत्वसिद्धेः । सर्वथा भेदे गुणगुणिभावविरोधात् गमकत्वासिद्धेः ।
$ १५६. तथा काचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्ति नियमवतीमुपलभ्यान्यत्र तद्धर्मस्य निश्चयात्साध्यसिद्धिर्वीतं कथ्यते । यथा-सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात्, इति । तदिदं केवलव्यतिरेकीष्टम्, परिणामिनाऽऽत्मना सात्मकत्वव्यावृत्तौ भस्मनि प्राणादिमत्त्वव्यावृत्तिनियमनिश्चयात् । निरन्वयक्षणिकचित्तवत् कूटस्थेनाऽऽत्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् ।
$ १५७. वीतावीतं तु तदुभयलक्षणयोगादन्वयव्यतिरेकि धूमादेःपावकाद्यनुमानं सुप्रसिद्धमेवेति न हेत्वन्तरमस्ति । ततः सूक्तम्-अन्यथानुपपन्नत्वनियमनिश्चयलक्षणं साधनम्, अतिसंक्षेप-संक्षेप-विस्त रातिविस्तरतो12ऽभिहितस्य सकलस्य 13 साधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्साधनात् साध्ये साधयितुं शक्ये, अभिप्रेते क्वचिदप्रसिद्ध च विज्ञानमनुमानमिति । साधयितुमशक्ये सर्वथैकान्ते साधनस्याप्रवृत्तेः, तत्र तस्य14 विरुद्धत्वात्, स्वयमनभिप्रेतेऽतिप्रसंगात्, प्रसिद्धे च वैयर्थात्, तस्य साध्याभासत्वप्रसिद्ध:16, प्रत्याक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयात् । तदुक्तमकलंकदेवैः--
साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरम् । साध्याभासं विरुद्धादि साधनाविषयत्वतः ।।
[न्यायविनि० २-१७२ ] इति17 । 1. 'यदापि' मु । 2. 'तदापि' मु। 3. 'केवलान्वयादि' स । 4. 'तथाभिधानात्' स। 5. 'परस्परं' मु । 6. 'प्रत्ययत्वात्' स । 7. 'वदीति' मु । 8. 'भेदे साध्ये' ब । 'भेदेनाप्यन्यथा-' स । 9. 'तु' नास्ति स। 10. 'प्रसिद्धमेवेति' मु। 11. 'अन्यथानुपपत्ति-' मु। 12. 'अतिसंक्षेपविस्तरतो' मु अ । 13. 'सकलसा-' मु। 14. 'तस्य तत्र' अ इ । 15. 'च' अस्ति मु अ इ स । 16. 'सिद्ध:' स । 17. 'इति' नास्ति मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org