________________
५६ : प्रमाण-परीक्षायाम् लिंगप्रकारेषु त्रिविधस्यापि सम्भवात् । तथोपपत्तिनियमा केवलान्वयिनो गमकत्वाविरोधात् । तत्र वैधर्म्यदृष्टान्ताभावेऽपि साध्याविनाभावनियमनिश्चयात् ।
$ १५४. अथ पूर्ववत् कारणात्कार्यानुमानम्, शेषवत् कार्यात्कारणानुमानम्, सामान्यतोदृष्टं अकार्यकारणादकार्यकारणानुमानम्, सामान्यतोऽविनाभावमात्रात्, इति व्याख्यायते; तदाऽपि स्याद्वादिनामभिमतमेव, तथासर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात् । यदाऽपि पूर्ववत् पूर्वलिंगलिगिसंबंधस्य क्वचिनिश्चयादन्यत्र प्रवर्तमानम् , शेषवत् परिशेषानुमानम्, प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तः, सामान्यतोदष्टं विशिष्टव्यक्तौ सम्बन्धाग्रहणात्सामान्येन दृष्टम्, यथा-गतिमानादित्यः देशा
द्देशान्तरप्राप्तेः, देवदत्तवत्, इति व्याख्या विधीयते; तदाऽपि स्याद्वादिनां नानवधेयम्, प्रतिपादितहेतुप्रपंचस्यैव विशेष प्रकाशनात् । सर्वं हि लिंग पूर्ववदेव, परिशेषानुमानस्यापि पूर्ववत्त्वसिद्ध, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य पूर्व क्वचिनिश्चितस्य विवादाध्यासितपरिशिष्ट प्रतिपत्ती साधनस्य प्रयोगात् । सामान्यतोदष्टस्य च पूर्ववत्त्वप्रतीतेः, क्वचिद्देशान्तरप्राप्तेः गतिमत्त्वाविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेः, अन्यथा तदनुमानाप्रवृत्तेः। परिशेषानुमानमेव वा सर्व सम्प्रतीयते, पूर्ववतोपि धूमात्पावकानुमानस्य प्रसक्ता'पावकप्रतिषेधात् प्रवृत्तिघटनात् । तदप्रसक्तो विवादानुपपत्तेरनुमानवैयर्थ्यात् । तथा सामान्यतोदृष्टस्यापि देशान्तरप्राप्तेरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तेरिति । सकलं सामान्यतोदष्टमेव वा, सर्वत्र सामान्येनैव लिंगलिंगिसम्बन्धप्रतिपत्तेविशेषतस्तत्सम्बन्धस्य प्रतिपत्तुमशक्तेः। केनचिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव, प्रकारान्तरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिश्चय एव हेतोः प्रयोजकत्वनिमित्तम्, तस्मिन् सति हेतुप्रकारभेदपरिकल्पनायाः10 प्रतिपत्तुरभिप्राय वैचित्र्याद्वैचित्र्यं नान्यथा, इति सुनिश्चितं नश्चेत:13, तथाप्रतीतेरबाध्यत्वात् ।
1. 'यथोपपत्तिनियमात्' मु स । 2. 'पूर्ववद्वर्तमान' मु इ । 3. 'व्याख्यायते' ब। 4. 'निश्चित्य तस्य' अ। 5. 'गतिमत्यविनाभा-' मु अ स । 6. 'अपि' नास्ति ब। 7. 'प्रसक्ती' मु। 8. 'तदप्रतिपत्तो' मु। 9. 'परिकल्पना' स । 10. 'हेतुप्रकारपरिकल्पना' स । 11. 'प्रतिपत्त्यभिप्रा-' स । 12. 'नश्चेतसि' मु। 13. 'अबाध्यमानत्वात्'-मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org