________________
प्रमाणसंख्या-परीक्षा : ५५ $ १५०. एवं परम्परया कारणकारणाद्यनुपलब्धि-व्यापकव्यापकानुपलब्ध्यादिकमपि बहुधा प्रतिषेधद्वारेण प्रतिषेधसाधनमवधारणीयम् । $ १५१. अत्र संग्रहश्लोकाः
स्यात्कार्य कारणं व्याप्यं प्राक्सहोत्तरचारि च । लिंगं तल्लक्षणव्याप्तेर्भूतं भूतस्य साधकम् ।।१।। षोढा विरुद्धकार्यादि साक्षादेवोपणितम् । लिंगं भूतमभूतस्य लिंगलक्षणयोगतः ।।२।। पारम्पर्यात्तु कार्य स्यात् कारणं व्याप्यमेव च । सहचारि च निर्दिष्टं प्रत्येकं तच्चतुर्विधम् ।।३।। कारणाद्विष्ठकार्यादिभेदेनोदाहृतं यथा । तथा षोढशभेदं स्यात् द्वाविंशतिविधं ततः ॥४॥ लिंगं समुदितं ज्ञेयमन्यथानुपपत्तिमत् । तथा भूतमभूतस्याप्यूह्य मन्यदपीदृशम् ।।५।। अभूतं लिंगमुन्नीतं भूतस्यानेकधा बुधैः । तथाऽभूतमभूतस्य यथायोग्य मुदाहरेत् ॥६॥ बहुधाऽप्येवमाख्यातं संक्षेपेण चतुर्विधम् ।
अतिसंक्षेपतो द्वेधोपलम्भानुपलम्भभृत् ।।७।। [ ]
१५२. एतेन कार्यस्वभावानुपलम्भविकल्पात्त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः, सहचरादेलिंगान्तरत्वात् । 'प्रत्यक्षपूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टम्' [ न्यायसू० १११।५] इत्यपि [निरस्तं प्रतिपत्तव्यम् ।
$ १५३. यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववत्सामान्यतोदृष्टं केवलव्यतिरेकि, पूर्ववच्छेषवत्सामान्यतोदष्टमन्वयव्यतिरेकि [इति ] व्याख्यायते त्रिसूत्रीकरणादस्य सूत्रस्य, तदा न किंचिद्विरुद्धम्, निगदित
1. 'कारणाद्यनुपलब्धिः' मु इ, 'कारणकारणाद्यनुपलब्धिः' अ ब स । किन्त्वत्रादिपदं मुक्त्वा 'कारणकारणानुपलब्धि-' इत्ययं पाठः विसर्गरहितः सम्यक् प्रतिभाति । परं बहुप्रतिषूपलब्धपाठमनुसृत्य स एव विनक्षिप्तोऽस्माभिः । -सम्पा० । 2. 'कारणव्याप्यं' मुव । 3. 'पुरा' म्। 4. 'यथा' मु । 5. 'अभ्यू ह्य' अब इ । अत्र चतुर्थपादस्थाने 'भूतं भूतस्य तादृशम्' भाव्यम । 6. 'भूतमुन्नोतं' मु । 7. 'यथायोग' अ ब इ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org