________________
६४ : प्रमाण-परीक्षायां
$ १७१. तदेतदयुक्तम् ; गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनाभिप्रेतत्वात् लिंगाप्तोक्त्यक्ष बुद्धिषु तथैव तस्य प्रतिपत्तेः । न हि लिंगस्यापौरुषेयत्वमदुष्टत्वम्, साध्याविनाभावनियम निश्चयाख्येन गुणेन गुणवत्त्वस्यादुष्टत्वस्य प्रतीतेः । तथाऽऽतोक्ते ' रविसंवादकत्वगुणेन गुणवत्त्वस्य तथाऽक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति ।
$ १७२. ननु चादुष्टत्वं दोषरहितत्वं कारणस्य, तच्च क्वचिद्दोषविरुद्धस्य गुणस्य सद्भावात्, यथा मन्वादिस्मृतिवचने । क्वचिद्दोषकारणस्याभावात् यथा चोदनायाम् । तदुक्तम् -
शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः क्वचित्तावद् गुणवद्वक्तृकत्वतः ॥ १॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥
[
] इति ।
,,
$ १७३. तदप्यसारम्; सर्वत्र गुणाभावस्यैव दोषत्वात्, गुणसद्भावस्यैव चादोषत्वप्रतीते: १, अभावस्य भावान्तरस्वभावत्वसिद्ध ेः, अन्यथा प्रमाणविषयत्वविरोधात् । गुणवद्वक्तृकत्वस्य हि दोषरहित "वक्तृकत्वस्य सम्प्रत्ययः। कथमन्यथा गुणदोषयोः सहानवस्थानं युज्येत । राग-द्वेषमोहा हि वक्तु दोषा वित्तथाभिधानहेतवः । तद्विरुद्धाश्च वैराग्य-क्षमातत्त्वावबोधास्तदभावात्मकाः सत्याभिधानहेतवो गुणा इति परीक्षकजनमनसि वर्तते ।
)
$ १७४. न च मन्त्रादयः स्मृतिशास्त्राणां प्रणेतारो गुणवन्तः तेषां तादृशगुणाभावात् । निर्दोषवेदपराधीनवचनत्वात्तेषां गुणवत्त्वम्; इत्यप्यसम्भावनीयम् - 2; वेदस्य गुणवत्त्वासिद्ध:, पुरुषस्य गुणाश्रयस्याभावात् । यथैव हि दोषवान् पुरुषो वेदानि वर्तमानो निर्दोषतामस्य साधयेत्तथाऽसौ गुणवान् " अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव
14
o
1. 'तदेतदुक्तं ' मु । 2. 'मदुष्टं' मु । 3. ' तथाप्रोक्ते - ' मु । 4. 'दोपकारणभावात् ' मु । 5. ' तथा ' सु । 6 'वक्त्रधीनमिति' मु अ । 7. 'इति' नास्ति मु । 8. 'दोषवत्त्वात्' मु 1 9. 'चादोषप्रतीतेः' 10. ' रहितस्य वक्तृ ' सु । 11. मोहादिर्वक्तु' मु, मोहोदयः वक्तु-' अस । 12. ' इत्यसम्भावनीयम्' स । 13. 'दोषवान् वेदा-' मु । 14. ' गुणवानवि' मु । 15. वत्त्वमिति' स |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org