________________
३८ : प्रमाण-परीक्षायां
प्रत्यक्षत्वसामान्यं तु हेतुः, स कथं अनन्वयः स्यात्, सकलप्रत्यक्षविशेष व्यापित्वात् । दृष्टान्ते क्वचिदभावादनन्वय इति चेत्; न; 'सर्वे भावाः क्षणिकाः सत्त्वात्' इत्यादेरपि हेतोरनन्वयत्वप्रसक्तेः। अथास्य दृष्टान्ते नान्वयस्यापि साध्यमिणि सर्वत्रान्वयसिद्धविपक्षे बाधकप्रमाणसद्भावाच्च निर्दोषताऽनुमन्यते, तत एव प्रत्यक्षत्वस्य हेतोनिर्दोषताऽस्तु, सर्वथा विशेषाभावात् । केवलव्यतिरेकिणोऽपि च हेतोरविनाभावनियमनिर्णयात्। साध्यसाधनसामर्थ्यान्न कश्चिदुपालम्भः । ततो निरवद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं साधयत्येव ।
$ ९०. न चैतदसम्भवि, साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य कात्स्न्येन एकदेशेन वा वैशद्यसिद्धर्बाघकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि आत्मा तमेव क्षीणावरणं क्षीणोपशान्तावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथं वैशद्यमसम्भाव्यमिति सूक्तम् 'विशदज्ञानात्मकं प्रत्यक्षम्' इति ।
- [इदानों प्रत्यक्षभेदान् निरूपयति ] ६९१. तत् त्रिविधम्-इन्द्रियानिन्द्रियातीन्द्रियप्रत्यक्षांवकल्पात् । तत्रेन्द्रियप्रत्यक्षं सांव्यवहारिकम्, देशतो विशदत्वात् । तद्वदनिन्द्रियप्रत्यक्षम्, तस्यान्तर्मुखाकारस्य कथंचिद्वेशद्यसिद्धेः । अतीन्द्रियप्रत्यक्षं तु द्विविधं विकलप्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविधम् - अवधिज्ञानं मनःपर्ययज्ञानं चेति । सकलप्रत्यक्षं तु केवलज्ञानम् । तदेतत्त्रितयमपि मुख्यं प्रत्यक्षम्, मनोऽक्षानपेक्षत्वात्, अतीतव्यभिचारत्वात्, साकारवस्तुग्राहित्वात्, सर्वथा स्वविषयेषु वैशद्याच्च । तथा चोक्तं तत्त्वार्थवात्तिककारैः'इन्द्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्'
[त. वा. १-१२ ] इति ।
___ 1. 'प्रत्यक्षसामान्यं हेतुः' मु । 2. 'विशेषस्य' म। 3. ..."किणोऽपि हेतोः' मुअ। 4. 'अविनाभावनिर्णयात' म्। 5. 'कथंचिदपि' मु। 6. 'वैशा संभाव्य-' मु। 7. 'इति' नास्ति मु। 8. 'विकल्पनात्' मु। 9. 'अपि द्विविधम्' पाठो नास्ति स । 10. 'व्यभिचारित्वात्' मु।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org