________________
प्रमाणसंख्या-परीक्षा : ३९ $ ९२. तत्रेन्द्रियानिन्द्रियानपेक्षमिति वचनात् सांव्यवहारिकस्येन्द्रियप्रत्यक्षस्यानिन्द्रियप्रत्यक्षस्य च देशतो विशदस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तेः । साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वव्यावर्त्तनात् । सूक्तं मुख्यं प्रत्यक्षत्रयम् ।
६९३. ननु स्वसंवेदनप्रत्यक्षं चतुर्थं स्यादिति न मन्तव्यम्, तस्य सकलज्ञानसाधारणस्वरूपत्वात् । यथैव हीन्द्रियप्रत्यक्षस्य स्वरूपसंवेदनमिन्द्रियप्रत्यक्षमेव, अन्यथा तस्य स्व-परसंवेदकत्वविरोधात् संवेदनद्वयप्रसंगाच्च । तथाऽनिन्द्रियप्रत्यक्षस्य मानसस्य सुखादिज्ञानस्य स्वरूपसंवेदनमनिन्द्रियप्रत्यक्षमेव तत एव । तद्वदतीन्द्रियप्रत्यक्षत्रयस्य स्वरूपसंवेदनमतीन्द्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थान्तरं स्वसंवेदनप्रत्यक्षम् । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनिन्द्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यम्, तस्यानिन्द्रियनिमित्तत्वात्, विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकलं ज्ञानं स्वरूपसंवेदनापेक्षया प्रमाणं सिद्धम्, भावप्रमेयापेक्षायां प्रमाणाभासनिवात् ।
$९४. किं पुनरिन्द्रियप्रत्यक्षम् । इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजायमानं' मतिज्ञानम् । _ 'तदिन्द्रियानिन्द्रियनिमित्तम्' [ त० सू० १-१४ ] इति वचनात् ।
$ ९५. तच्चतुर्विधम्-अवग्रहावायधारणाविकल्पात् । तत्र विषयविषयि-सन्निपातानन्तरमाद्यग्रहणमवग्रहः, किंस्विदिति निविशेषवस्तुमात्रालोचनदर्शननिमित्तं सविशेषवर्णसंस्थानादिवस्तुविज्ञानमित्यर्थः । तद्गृहीतवस्तुविशेषाकांक्षणमोहा भवितव्यताप्रत्ययरूपा। ईहितविशेषनिश्चयोऽवायः। सावधारणं ज्ञानं कालान्तराविस्मरणकारणं धारणाज्ञानम् । तदेतच्चतुष्टयमपि अक्षव्यापारापेक्षम्, अक्षव्यापाराभावे तस्यानुद्भवनात् । मनोऽपेक्षं च, प्रतिहतमनसः तदनुपपत्तेः । तत
1. 'अनिन्द्रियस्य च देशतो' म । 2. 'स्वपरस्वरूपसंवेदक' म्। 3. 'सुखादिज्ञानस्य' पाठो नास्ति म। 4. 'तद्वदतीन्द्रियप्रत्यक्षत्रितयमेवेति' मु। 5. 'स्वसंवेदनं प्रत्यक्षं' अ। 6. 'निन्हवः' म अ। 7. 'इन्द्रियप्रधान्यादिन्द्रिबल.' मु । 8. किंस्विदिति निविशेषवस्तुमात्रालोचनदर्शननिमित्तं सविशेषवर्णसंस्थानादिवस्तुविज्ञानमित्यर्थः' इति पाठो त्रुटितः मु। 9. '.." रूपात्तदोहित-' मु ब स इ । 10. 'विनिश्चयो' बस। 11. 'तदनुद्भवनात्' मु अ इ। 12. 'तदनुत्पत्तेः' मु अइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org