________________
२ : प्रमाण-परीक्षायां
परिवर्तमानत्वात् । तथा हि-यदसंनिधाने' कारकान्तरसंनिधानेऽपि यनोत्पद्यते तत्तत्करणकम्, यथा कुठारासंनिधाने काष्ठच्छेदनमनुत्पद्यमानं कुठारकरणकम्, नोत्पद्यते च भावेन्द्रियासमवधाने ऽर्थं संवेदन मुपकरणसद्भावेऽपि इति तत् भावेन्द्रियकरणकम् । बहिःकरणसंनिकर्षाधीनतायां हि पदार्थ संवेदनस्य नयनसंनिकर्षात् कलश इव नभसि नायनसंवेदनोदयः कुतो न भवेत् । न च नयनममूर्तिमदेव, तस्य परैभौतिकतयोपगतत्वात् पौद्गलिकतयास्माभिरुपकरणस्याभिमतत्वात् ।
४. ननु नभसि नयनसंनिकर्षस्य योग्यताविरहान्न संवेदननिमित्तता; इत्यपि न साधीयः; तद्योग्यताया एव साधकतमत्वानुषङ्गात् ।
$ ५. का चेयं संनिकर्षस्य योग्यता नाम । विशिष्टा शक्तिः; इति चेत्; सा' तह सहकारिसंनिधिलक्षणानुमन्तव्या, 'सहकारिसांनिध्यं शक्तिः ' इति उद्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मादि वा स्यात् । न तावदात्मद्रव्यं सहकारि, तत्संनिधानस्य नयननभः संनिकर्षेऽपि समानत्वात् । एतेन' कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतम्, तत्सांनिध्यस्यापि सर्वसाधारणत्वात् । मनोद्रव्यं सहकारि; इत्यपि न संगतम्; तत्संनिधेरपि समानत्वात् कदाचित्तद्गतमनसः पुरुषस्याक्षार्थ संनिकर्षस्य संभवात् ।
,
$ ६. एतेन 'आत्मा मनसा युज्यते, मन इन्द्रियेण इन्द्रियमर्थेनेति चतुष्टयसंनिकर्षोऽर्थं प्रमितौ साधकतमः ' [ न्यायमं. पृष्ठ ७४] इति सामग्रीप्रमाणवादो दूषितः, तत्सामग्र्याश्च नभसि सद्भावात्, कालादिनिमित्तकारणसामग्रीवत् ।
७. यदि पुनस्तेजोद्रव्यं सहकारि तत्संनिधानाच्चाक्षुष 'ज्ञ नप्रभवात्; इति मतम् ; तदापि न विशेषः, घटादाविव गगनेऽपि लोचनसंनिकर्षस्यालोकसंनिधिप्रसिद्धेः संवेदनानुषङ्गस्य दुर्निवारत्वात् ।
१. तुलना - ' यदसंनिधाने कारकान्तरसंनिधानेऽपि यन्नोत्पद्यते तत्तत्करणकम्, यथा कुठारासंनिधाने कुठारकाष्ठच्छेदनमनुत्पद्यमानं कुठारकरणकम्, नोत्पद्यते च भावेन्द्रियासंनिधाने स्वार्थ संवेदनं संनिकषादिसद्भावेऽपीति तद्भावेन्द्रियकरणकम्' -- प्रमेयक० मा० १-१ । २. जैनः । ३. आत्मद्रव्यस्य सहकारित्वनिराकरणेन । ४. तुलना -- ' सहकारिकारणं चात्र द्रव्यं गुणः कर्म वा स्यात् । द्रव्यं चेत्, कि व्यापि द्रव्यम्, अव्यापि द्रव्यं वा । न तावद् व्यापि द्रव्यम्, तत्सांनिध्यस्याकाशादीन्द्रियसन्निकर्षेऽप्यविशेषात् । - प्रमेयक० १-१ । ५. कालादे: सहकारित्व
....3
निरासेन ।
1. 'यन्नोपपद्यते ' मु । 2. 'तहि तस्य ' अ ब स द । 3. 'चाक्षुषादि' मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org