________________
श्रीमदाचार्यविद्यानन्द-विरचिता प्रमाण-परीक्षा
[ मङ्गलाचरणम् ]
जयन्ति
निर्जिताशेष - सर्वथैकान्त- नीतयः ।
सत्यवाक्याधिपाः शश्वद्विद्यानन्दा जिनेश्वराः ॥ १ ॥
$ १ अथ प्रमाण-परीक्षा ।
$ २. तत्र प्रमाणलक्षणं परीक्ष्यते ।
[ प्रमाणलक्षण-परीक्षा ]
$ ३. सम्यग्ज्ञानं प्रमाणम्, प्रमाणत्वान्यथानुपपत्तेः । 'संनिकर्षादिरज्ञानमपि प्रमाणम्, स्वार्थप्रमितौ साधकतमत्वात्' इति नाशङ्कनीयम्; तस्य स्वप्रमितो साधकतमत्वासंभवात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणम्, पटादिवत्' । 'सोऽथं प्रमितौ करणम्, इत्यप्यनालोचितवचनं नैयायिकानाम्; स्वप्रमितावसाधकतमस्यार्थप्रमितो साधकतमत्वानुपपत्तेः । तथा हि-न संनिकर्षादिरर्थप्रमितो साधकतमः, स्वप्रमितावसाधकतमत्वात्, पटादिवत् । प्रदीपादिभिर्व्यभिचार: साधनस्य; इति न मन्तव्यम्; तेषामर्थपरिच्छित्तावकरणत्वात्, तत्र नयन- मनसोरेव करणतया स्वयमभिमतत्वात्, प्रदीपादीनां तत्सहकारितयोपचारतः करणव्यवहारानुसरणात् ' । न चोपचारतोऽर्थ प्रकाशन एव प्रदीपादिः करणम्, न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिरनुमन्यते; नयनादेरर्थं संवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदोपादीनां सहकारित्वाविशेषात्तेषामर्थ प्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिनानेकान्तः; इत्यपि न मननीयम्; तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्ती करणतोपचारात् । परमार्थतो भावेन्द्रियस्यैवार्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसानात् । न चैतदसिद्धम्, विशुद्धधिषण जनमनसि युक्तियुक्ततया
१. संनिकर्ष: । २ अर्थपरिच्छित्तौ ।
1. 'घटादिवत् ' अ । 2. 'व्यवहरणानुसरणात् ' अ । 3. 'अध्यवसनात् ' म् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org