________________
દ્રવ્ય-ગુણ-પર્યાયનો રાસ
ढाण-6:
था-१६
૨૭૯
नैगमस्त्रेधा-भूतभाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र, स भूतनैगमो, यथा-अद्य दिपोत्सवदिने श्रीवर्धमानस्वामी मोक्षं गतः । भाविनि भूतवत् कथनं यत्र स भाविनैगमो यथा, अर्हन् सिद्ध एव । कर्तुमारब्धमीषन्निष्पन्नमनिष्पन्नं वा वस्तु निष्पन्नवत्कथ्यते यत्र स वर्तमाननैगमो यथा, ओदनः पच्यते । इति नैगमस्त्रेधा ।
संग्रहो द्विविधः । सामान्यसंग्रहो यथा-सर्वाणि द्रव्याणि परस्परमविरोधीनि । विशेषसंग्रहो यथा-सर्वे जीवा: परस्परमविरोधिनः इति संग्रहोऽपि द्वधा । व्यवहारोऽपि द्वेधा । सामान्यसंग्रहभेदकव्यवहारो यथा- द्रव्याणि जीवाजीवाः । विशेषसंग्रहभेदकव्यवहारो यथा-जीवाः संसारिणो मुक्ताश्च । इति व्यवहारोऽपि द्वधा ।
ऋजुसूत्रो द्विविधः । सूक्ष्मणुसूत्रो यथा- एकसमयावस्थायी पर्यायः । स्थूलर्जुसूत्रो यथा-मनुष्यादि पर्यायास्तदायुःप्रमाणकालं तष्ठन्ति । इति ऋजुसूत्रोऽपि द्वधा । शब्दसमभिरूदैवम्भूताः प्रत्येकमैकैके नया: । शब्दनयो यथा-दारा भार्या कलत्रम्, जलमाप: । समभिरूढनयो यथा- गौः पशुः । एवम्भूतो नयो यथा-इन्दतीति इन्द्रःउक्ता अष्टाविंशतिर्नयभेदाः ।।
લહો જસ વિસ્તાર રે” આ છેલ્લી ગાથાના પદમાં “જસ” શબ્દ લખીને ગ્રંથકર્તાએ કર્તા તરીકે પોતાનું નામ ગર્ભિત રીતે સૂચવ્યું છે. તે ૮૯ છે.
છઠ્ઠી ઢાળ સમાપ્ત