________________
हेतुबिन्दुटीका। __ यदि वा स्वभावादन्योऽर्थोऽर्थान्तरम् , तेच कार्यादप्यन्यत् - कारणमनुभयं [T. 244a.] वा । अनुपलब्धेरप्यन्यद् यथोक्तायाः - अनुपलब्धिमात्रमुपलब्धिर्वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरम् यद्यनन्तरकोर्य तस्याद्ग5 शिभिः इतरविवेकेन लक्षयितुमशक्यत्वात् अलिङ्गत्वम् । कार्यदर्शनात् [S. 60b.] विवेकावसायेऽपि साध्यसिद्धथुत्तरकालभावी पक्षधर्मतावसायोऽन्वयानुगमनं च व्यर्थ । व्यवहितकार्यमपि कारणं न कार्यस्य लिङ्गम् , अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम् - 10 "सामग्रीफलशक्तीनां परिणामानुबन्धिनि ।
अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् " [प्रमाणवा० ३. ] ॥ इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् ।
नाप्यनुभयम् , अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिकृप्तिः ? इति चेत् । ननु साऽपि 15 नैवासति प्रतिवन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्युक्तत्वात् । तस्मान्नक्षत्रचक्रस्य सङ्कान्तिहेतुरेव कालव्यवधानेन कश्चित् कल्पयितव्यः , यथा भूतसंक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधानुमानेन कार्यलिङ्गजैव कल्पयि
तव्या । 20 अनुपलब्धिमात्रमपि संशयहेतुः, [S. 61a.] [T. 244b.] प्रमाणनिवृत्तावप्यर्थाभावासिडेः । उपलब्धिरपि प्रतिषेध्यस्य कथमभावं साधयेत् ?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुडोपलब्धिस्तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस्तद्भावे
सत्यन्यानुपलम्भादेव सिद्ध इति तद्वारेणानुपलब्धिरेव प्रयुक्ता 25 भवति । अन्यथाऽनिषिद्धोपलब्धेरभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधेऽनैकान्तिकी, सहभावसम्भवादविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावोऽन्यत्र विद्यत इति ।
१. कार्यहेतोरपि यदन्यदभ्युपगम्यते तदपि तच्च ......... ऽर्थान्तरमेवेत्यर्थः । २. अनन्तरं कार्य यस्मात् कारणात् । ३, सामग्र्याः फलं च ताः शक्तयश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org