________________
अविनाभावनिरूपणम् ।
“ अग्निमति प्रदेशे ” साध्ये " धूम इति ” कार्यहेतोः प्रदर्शनम्, “अभावे च 'अभावस्य व्यवहारे च " उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति " अनुपलब्धेरुपन्यासः ।
""
[ $ ३७. त्रिविधहेतु बाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् । ]
कस्मात् पुनः त्रिविध एव हेतुः ? इत्याशङ्कथ [S. 59b.] 5 त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस्त्रिष्वेव हेतुत्वं नियतं भवतीति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्नाह – “ अत्रैव " स्वभावकार्याऽनुपलन्ध्याख्ये " त्रिविधहेतौ अविनाभावस्य नियमादिति " त्रिविधहेतुव्यतिरिक्तेष्वर्थेष्वविनाभावाऽभावादित्यर्थः । ततश्चाविनाभावविकल- 10 स्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणोऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्युक्तं भवति । अविनाभावाभावश्च त्रिविधहेतुव्यतिरिक्तत्वादेव तादात्म्यतदुत्पत्त्योरविनाभावव्यापिकयोरभावाद् व्यापकानुपलब्धितोऽवगतः ।
[ $ ३८. अविनाभावनिरूपणम् । ]
“
-
अथ कोऽयमविनाभावः ? कस्य चासौ ? कथं वाऽत्रैव 15 नियत उच्यते ? इत्यत आह " यथोक्ता व्याप्तिः व्यापकस्य " - तत्कारणतया तद्भावतया च । यत्र तद्वयाप्यं कार्यं स्वभावो वा सन्निहितस्तत्र भाव एव । व्याप्यस्य वा " कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव ध- 20 मिणि न तदभावेऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिरुक्ता सा " यथोक्ता व्याप्तिरविनाभावः " । कस्य ? । " पक्षधर्मस्य " साध्यधमिधर्मस्य । " स " एवंरूपोऽविनाभावः [S. 60a. ] “तृ(त्रि)विधाद्” यथोक्ताद् हेतो: “अन्यत्र” तद्व्यतिरेकिण्यर्थे “नास्ति” । यतोऽन च तृ ( त्रिविधेऽस्ति तादात्म्यतदुत्पत्योरविनाभावेन 25 व्यासयोर्भावात्, कृतकत्वानित्यत्ववद्नयोर्व्याप्यव्यापकभावादिति, " तस्मादत्रैव " त्रिविधे हेतौ तदन्यत्राभावमुखेन " नियतः " उच्यते । तदनेन " हेत्वाभासास्ततोऽपरे ” इत्यस्य " अविनाभावनियमात्” इत्युपपत्तिसहितस्यार्थः प्रदर्शितः । यथा च त्रिविधा हेतोर - न्यत्राविनाभावो नास्ति तथा प्रागेवोक्तम् ।
30
Jain Education International
"
-
५५
For Private & Personal Use Only
www.jainelibrary.org