________________
हेतुबिन्दुटीका । [T. 242b.] दृश्यस्वभावः स्यात् ? । यो हि सत्स्वन्येषुपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात् तथाविधे सन्निहितेऽवश्यं प्रत्यक्षवृत्त्या भवित. व्यम् , अन्यथाऽस्य न कदाचिदपि प्रत्यक्षता स्यात् , विशेषा5 भावादिति । प्रयोगः - यद् यन्मात्रनिमित्तं तत् [S. 58b. ] त. स्मिन् सति नियमेन भवति । तद् यथा - बीजादिसामग्रीमात्रनिमित्तोऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षमिति स्वभावहेतुः। एतेन प्रमाणेन स्वभावानुपलब्धौ साध्याभावेऽभावलक्षणो व्यतिरेको निश्ची10 यते । एतच्च प्रमाणमन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरेऽनुपलब्धेरभावोपदर्शनात्। कारणव्यापकानुपलब्ध्योस्तु वक्ष्यमाणयोः प्रतिबन्धदयसिद्धयुपाय एवान्वयव्यतिरेकनिश्चय निबन्धनम् । स च कार्यस्वभावहेत्वोरुपदर्शित एवेति पृथग्नोक्तः।
तथा हि -- कारणव्यापकयोरभावः कार्यव्याप्याभावाभ्यामवश्य15 मन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणेऽवश्यं
व्यतिरिच्यते कारणव्यापकयोर्भावात् । अन्यथा कार्यव्याप्ययोरहेतुकत्वनिःस्वभावताप्रसङ्गादिति [S. 59a.] न किश्चित् पृथगभिधानेनेति ।
[$ ३६. हेतोः प्रकारत्रयस्य नामनिर्देशः । ] 20 तदेतावता ग्रन्थेन “ पक्षधर्मस्तदंशेन व्याप्तो हेतुः ” इति व्या
ख्यातम् । [T. 243a.] अधुना " त्रिधैव सः" इत्येतद् व्याख्यातुमाह - “ एतल्लक्षणः " ' पक्षधर्मः सन् यस्तदंशेन व्याप्तो हेतुः' इत्येतल्लक्षणं यस्य स एतल्लक्षणः । “ त्रिधैव सः "। 'सः' इत्येतस्य व्याख्यानं "हेतुरिति, । 'त्रिधैव ' इत्यस्य विवरणं "त्रिप्र25 कार एवे"ति । तान् हेतून स्वेन स्वेन नाम्ना कीर्तयति - " स्वभावः कार्यम् अनुपलब्धिश्चेति " । "चकारो हेतुत्वसमुच्चयार्थः । “इति”शब्दः समाप्ति सूचयन्नवधारणार्थमेव स्फुटयति । " यथा – अनित्ये ” कस्मिश्चित् शब्दादौ " साध्ये सत्व(त्त्व)मिति " स्वभावहेतूपदर्शनम् , १. वश्यं तथाविधप्र० - T. । २. सति । ३. कारणव्यापकाभावो निवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org