________________
अनुपलब्धौ व्यतिरेकनिश्चयोपायः
" गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते । तदान्यकारणाभावादसन्नित्यवगम्यते ॥" [ श्लोक • अर्था० ३८ ] इति । देशादिविप्रकर्षितया त्वदृश्यत्वे सत्यपि तंत्र [S. 57b. ] हेतावनुपलम्भमात्रस्य सम्भवात् सन्दिग्धोऽसावशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव यत्र यत्र साध्या - 5 भाव: [T. 242a. ] तत्र तत्र साधनाभाव इति वीप्सापदाभ्यामभिधानात् । अन्वयनिश्चयोऽपि प्राक्प्रतिबन्धनिबन्धन एव वणितः ततस्तेनापि परेषां दर्शननिबन्धनामन्वय सिद्धिमिच्छ तामभावोऽस्यापि कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुमशक्यत्वादनुमातृभिः । अशेषदेशादिविषयस्य च 10 साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्म्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शनेऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानामप्यन्यथात्वस्यापि सम्भवात्, तदसम्भवे बाधकप्रमाणाभावात् ।
५३
[ $ ३५. अनुपलब्धौ व्यतिरेकनिश्चयोपायकथनम् । ] अनुपलब्धिमधिकृत्याधुनाऽऽह - “ व्यतिरेकनिश्चयोऽनुपल धौ " उच्यत इति शेषः । [S.58a. ] किमात्मकोऽसौ ? इत्याह " उपलब्धिलक्षणप्राप्ताद् ” विद्यमानोपलम्भप्रत्ययान्तराद् दृश्यस्वभावाचं " सतः " विद्यमानात् साध्याभावरूपांदू ረ अनुपलम्भस्य 35 20 तद्विविक्तोपलम्भात्मनो योऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस्तस्य " दर्शनं ” दश्यते - प्रत्याय्यतेऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मकोऽनुपलब्धी व्यतिरेकनिश्चयः । तद्धेतुत्वाच्च तत् प्रमाणं तथोच्यते " । यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानोऽपि नोपलभ्येत कथमसौ 25
Jain Education International
15
१. ननु येऽपि न दृश्यास्तेष्वदर्शनमस्ति, अतोऽदर्शनादेव सर्व्वत्र व्यतिरेकनिश्चयः इत्याह । २. साये । ३. अशेषसाध्याभावे साधनाभावलक्षणस्य । ४. दृश्येऽदृश्ये च । ५. प्रतिबन्धनिबन्धनेनान्वयेन । ६. दर्शनमात्रनि० T. । ७ अन्वयस्य । ८. अन्यथात्व० । ९. उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च " - [ न्यायबिन्दु परि० २ ] । १०. अनुपलब्धो (?) साध्यम सत्त्वम् । ११. अनन्योपायसाच्यतां दर्शयितुम् ।
66
For Private & Personal Use Only
www.jainelibrary.org