________________
हेतु बिन्दुका ।
“
-
I
त्रापि कस्माद् दृश्यविषयताऽपेक्ष्यते ? इति चेत् आह - लब्धि ” इत्यादि । “ अन्यथा " यदि दृश्यविषयताविशेषणमनुपलध्यानपेक्ष्यते । यदाऽनुपलब्धिलक्षणप्राप्तं [S. 56b.] विषयं वैधर्म्यदृष्टान्तरूपमुपादत्ते तदाऽनुपलब्धिलक्षणप्राप्तौ तत्र कारण5 व्यापकावपि भवत इति “अनुपलब्धिलक्षणप्राप्तस्य" कारणस्य व्यापकस्य वा "क्वचिद् " विप्रकृष्टे विषये सुमेर्व्वादौ "अभावासिद्धेः” कथमाभ्यां साध्याभावेऽभावसिद्धि: स्यात्, कारणव्यापकानुपलब्ध्योरेवासिद्धत्वात् इत्यभिप्रायः ।
५२
अधानुद्दिष्टविषयस्याप्यभावस्योपदर्शनेऽनुपलब्ध्योद्देश्यवि
W
10 षयताविशेषणं किमिति नापेक्ष्यते ? इत्याह - " अनुद्दिष्टविषयम् [T. 241b.] अनुद्दिष्टो विषयः - वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् “प्रतिबन्धमात्रसिद्धौ” सत्यां दृश्यविषयताविशेषणमन्तरेणापि यस्मात् " सिध्यति इति " तस्मात्
" न तत्र 'अनुद्दिष्टविषये “ व्यतिरेकसाधने " अनुपलब्ध्यो “ईश्यविषय15 ताविशेषणमपेक्ष्यते" अङ्गीक्रियते । [S. 57a.] तथा हि - अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावेऽवश्यमेव न भवतीति निःस्वभावत्वाऽहेतुकत्वप्रसङ्गात् । तदुक्तम् -
20
HUR
अनुप
" स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि ।
तदभावे स्वयं भावस्याभावः स्यादभेदतः ।। " [ प्रमाणवा० ३.३८ ] तथा " कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः ।
स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥” [ प्रमाणवा० ३.३३] इति । ततस्तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किश्चिदिति भावः ।
Jain Education International
53
25 " प्रतिबन्धमात्रसिद्धौ " इत्यनेन ये प्रतिबन्धं हेतोर्न वर्णयन्ति किन्त्वदर्शनमात्रादेव व्यतिरेकमाहुस्तेषां तदसम्भवं च दर्शयति । तथा हि - असति प्रतिबन्धे यदि सर्व्वे साध्यविरहिणोऽर्था दृश्या भवन्ति तदा तेष्वनुपलब्धस्य साधनस्याभाव: शिष्येत् । तदाह कुमारिलोऽपि -
For Private & Personal Use Only
www.jainelibrary.org